|| आदित्यहर्षणस्तोत्रं सार्थम् ||
वैष्णवानां हरिस्त्वं शिवस्त्वं स्वयं
शक्तिरूपस्त्वमेवानयस्त्वं नतेः ।
त्वं गणाधिकृतस्त्वं सुरेशाधिप-
स्त्वं मरुत्वान्रविस्त्वं सदा स्तोचताम् ॥ १॥
त्वं सदा लोककल्याणकृन्मण्डलः
तप्यमानो जगद्भूतिसिद्ध्यै नभे ।
राति रात्र्यै निविष्टाभमग्निं तथा
द्वादशात्मन् सदाऽऽनन्दमग्नो भव ॥ २॥
जान्ममात्रेण चासक्तिग्रस्तो वयं
शाम्बरीबन्धने विस्मृताश्चार्थिनः ।
भक्तिभावेन हीनाय जोषालयोऽ-
र्कादितेयोष्णरश्मे प्रसन्नो मयि ॥ ३॥
अकृतार्थाय ब्रह्माण्डसाद्धस्तथा
तायको विष्णुरूपेण कल्पान्तरे ।
यो महाऽन्ते शिवश्चण्डनीलो नटो
दक्षजाऽङ्गप्रभस्त्वं सदा रोचताम् ॥ ४॥
ब्राह्मणो बाहुजोऽन्याश्च वर्णाश्रमा
ब्रह्मचर्याद्यतित्वो हृषीके ध्रुवः ।
धर्मकामादिरूपेण चावस्थितः
प्राणतत्वो महेन्द्रः प्रसन्नोऽवतु ॥ ५॥
अस्मदाचार्यप्रोक्तं प्रमाणं परं
याचकाः पादपद्मानुकम्प्यास्तव ।
स्वस्य जन्मान्तराच्चक्रमुक्तास्तदाऽ-
नर्हजीवस्तु ऋच्छामि धामं कथम् ॥ ६॥
शौचमाचारमस्मत् प्रमुक्ताः कृताः
स्वात्मधर्माद्विमुक्तास्तु पापे रताः ।
केवलं कुक्षिपूर्तेर्वयं याजका
हेऽधमोद्धारणस्तृप्यतात्तापनः ॥ ७॥
पूजितो दस्रतातान्ववायैस्तथा
ऋग्यजुर्वेदसामं चतुर्थों यथा ।
आगमाः पञ्चकालैर्क्रमे वेदक-
स्त्वं विहङ्गः सदाऽऽनन्दितोऽस्मासु हि ॥ ८॥
सप्तलोकार्णवाश्चान्तरीपाः स्वरा
योगिनो रश्मयः सप्तधाऽऽरोपितः ।
औषधेश्छन्दभावेऽन्नगोमारुतैः
पालकादित्य संज्ञापते रोचताम् ॥ ९॥
कौशलेन्द्रकृतस्योष्णरश्म्यर्पित-
-स्याग्रतः सूर्यवर्णस्य उत्कूजकः ।
हर्षितो वाद्ययन्त्रादिभिर्भूषितोऽ-
न्तत्यहार्यां गतिं सूर्यतत्वां पराम् ॥ १०॥
॥ इत्याचार्यश्रीकौशलेन्द्रकृष्णशर्मणा
विरचितमादित्यहर्षणं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now