|| श्री आदित्य द्वादशनाम स्तोत्रम् PDF ||
आदित्यः प्रथमं नामं द्वितीयं तु दिवाकरः ।
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ १ ॥
पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः ।
सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥ २ ॥
नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः ।
एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ ३ ॥
द्वादशादित्यनामानि प्रातः काले पठेन्नरः ।
दुःस्वप्नो नश्यते तस्य सर्वदुःखं च नश्यति ॥ ४ ॥
दद्रुकुष्ठहरं चैव दारिद्र्यं हरते ध्रुवम् ।
सर्वतीर्थकरं चैव सर्वकामफलप्रदम् ॥ ५ ॥
यः पठेत् प्रातरुत्थाय भक्त्या स्तोत्रमिदं नरः ।
सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥ ६ ॥
इति श्री आदित्य द्वादशनाम स्तोत्रम् ।
Read in More Languages:- teluguSurya Panjara Stotram Telugu
- kannadaಶ್ರೀ ಆದಿತ್ಯ ದ್ವಾದಶನಾಮ ಸ್ತೋತ್ರಂ
- teluguశ్రీ ఆదిత్య ద్వాదశనామ స్తోత్రం
- tamilஶ்ரீ ஆதி³த்ய த்³வாத³ஶநாம ஸ்தோத்ரம்
- sanskritआदित्य हर्षण स्तोत्रं सार्थम्
- teluguఆదిత్య హృదయం తెలుగు (Aditya Hrudayam Telugu)
- sanskritश्री रवि सप्तति रहस्यनाम स्तोत्रम्
- englishShri Surya Kavach Stotram
- sanskritआदित्य कवच पाठ
- sanskritसूर्यार्यास्तोत्रम्
- tamilஸூர்யமண்டல ஸ்தோத்ரம்
Found a Mistake or Error? Report it Now
