|| आपादस्तोत्रम् ||
मध्वादृतं रजतपीठपुराधिवासं
हृद्यं मुदेऽस्तु मुरमर्दनपादपद्मम् ।
सद्योऽभिजातसुसरोजनवावभास-
स्पर्धिप्रभाविभवदीपितदिक्प्रदेशम् ॥ १॥
उद्यन्नखेन्दुरुदयं हृदि नस्तनोतु
मध्वागमोत्सवमहाङ्कुरपोषहेतुः ।
पद्मोपरिस्फुरितमौक्तिकचारुभाव-
प्रद्वेष्यघौघतिमिरप्रशमाय विष्णोः ॥ २॥
जङ्घायुगं जनयतु श्रियमन्वहं मे
तुङ्गेन्दिराकरसरोरुहरङ्गसङ्गि ।
सञ्जातपल्लवितचारुलतापरीत-
स्तम्भोपमानपरमन्दिरमच्युतस्य ॥ ३॥
ऊरुद्वयं सततमुच्चपदं ददातु
श्रीरूप्यपीठनिलयस्य हरेर्हरेड्यम् ।
वृत्तावलम्बिकरिपोतमृदुप्रपुष्ट-
हस्तद्वयप्रतिममप्रतिमस्य तस्य ॥ ४॥
पीनं हरेरुदरमादरतस्स्मरामि
ज्ञानात्मकस्य नवनीतजगन्निकेतम् ।
आनन्दतीर्थनयनाभिधमीनमान्य-
श्रीनिम्ननाभिसरसीरुचिरं चिरं तत् ॥ ५॥
वक्षस्थलं विशदहारविराजि विष्णो-
र्लक्ष्मीविशालगृहमस्तु ममान्तरङ्गम् ।
नक्षत्रराजिसुविराजिनिशेशबिम्ब-
लक्ष्याम्बरोपममपारगुणाम्बुराशेः ॥ ६॥
रत्नौघचञ्चुफणपञ्चकभोगिभोगं
स्वस्पर्धिजेतुमिव दण्डसुपाशधारी ।
सत्कङ्कणाङ्गदसुशोभशुभाङ्गुलीयं
हस्तद्वयं मम तनोत्वभयं मुरारेः ॥ ७॥
वक्रालकं वरनसोज्ज्वलकुण्डलाभ्यां
युक्तं त्रिरेखिगलमुन्नतमौलिबन्धम् ।
वक्त्रं विभोर्मधुपमौक्तिकमत्स्यसङ्घ-
शैवालशालिकमलद्युति मेऽक्ष्णि भूयात् ॥ ८॥
अम्लानपद्मदलमात्मरुचाऽनुकुर्व-
दाम्नायकोविदबुधेष्टकृतप्रचारम् ।
रम्यं विलोचनयुगं श्रितमीक्षतां मां
सन्मध्वपूजितपदाब्जयुगस्य तस्य ॥ ९॥
मुग्धाननेन नयनेन करेण नाभि-
च्छिद्रेण पादयुगलेन धृताब्जसाम्यम् ।
पद्मालयोज्झति कदाऽपि न देवमेनं
मध्वप्रियं त्विति किमत्र गिरां विचारैः ॥ १०॥
आपादमा च मकुटान्मुरवैरिणोऽत्र
स्तोत्रं तदेतदनवद्यमवद्यजैत्रम् ।
गोपालवाजिमुखकिङ्करवादिराज-
प्रोक्तं पठन् भवति तत्सदयाक्षिलक्ष्यम् ॥ ११॥
इति श्रीमद्वादिराजयतिप्रोक्तमापादस्त्रोत्रं सम्पूर्णम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Found a Mistake or Error? Report it Now