Download HinduNidhi App
Brahma Ji

श्री ब्रह्म कवचम्

Brahma Kavacham Hindi

Brahma JiKavach (कवच संग्रह)संस्कृत
Share This

॥ श्रीब्रह्मकवचम् ॥

ॐ श्रीब्रह्मणे नमः ।

कवचं शृणु चार्वङ्गि जगन्मङ्गलनामकम् ।
पठनाद्धारणाद्यस्य ब्रह्मज्ञो जायते ध्रुवम् ॥

परमात्मा शिरः पातु हृदयं परमेश्वरः ।
कण्ठं पातु जगत्त्राता वदनं सर्वदृग्विभुः ॥

करौ मे पातु विश्वात्मा पादौ रक्षतु चिन्मयः ।
सर्वाङ्गं सर्वदा पातु परब्रह्म सनातनम् ॥

श्रीजगन्मङ्गलस्यास्य कवचस्य सदाशिवः ।
ऋषिश्छन्दोऽनुष्टुबिति परब्रह्म च देवता ॥

चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः ।
यः पठेद्ब्रह्मकवचं ऋषिन्यासपुरःसरम् ॥

स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् ।
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारायेद्यदि ॥

कण्ठे वा दक्षिणे बाहौ सर्वसिद्धीश्वरो भवेत् ।
इत्येतत् परमं ब्रह्मकवचं ते प्रकाशितम् ॥

दद्यात् प्रियाय शिष्याय गुरुभक्ताय धीमते ।
पठित्वा स्तोत्रकवचं प्रणमेत्साधकाग्रणीः ॥

ॐ नमस्ते परमं ब्रह्म नमस्ते परमात्मने ।
निर्गुणाय नमस्तुभ्यं सद्रूपाय नमो नमः ॥

॥ इति श्रीब्रह्मकवचं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री ब्रह्म कवचम् PDF

श्री ब्रह्म कवचम् PDF

Leave a Comment