॥श्री महागणेश पंचरत्न स्तोत्र ॥
सरागलोकदुर्लभं विरागिलोकपूजितं,
सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।
गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः,
नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥
गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं,
करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् ।
सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं,
शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥
शुकादिमौनिवन्दितं गकारवाच्यमक्षरं,
प्रकाममिष्टदायिनं सकामनम्रपंक्तये ।
चकासतं चतुर्भुजैः विकासपद्म पूजितं,
प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥
नराधिपत्वदायकं स्वरादिलोकदायकं,
ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।
करांबुजोल्लसत्सृणिं विकारशून्यमानसैः,
हृदा सदा विभावितं मुदा नमामि विघ्नपम् ॥
श्रमापनोदनक्षमं समाहितान्तरात्मनां,
सुमादिभिस्सदार्चितं क्षमानिधिं गणाधिपम् ।
रमाधवादिपूजितं यमान्तकात्मसंभवं,
शमादिषड्गुणप्रदं नमामि तं विभूतये ॥
गणाधिपस्य पंचकं नृणामभीष्टदायकं,
प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।
भवन्ति ते विदांपुरः प्रगीतवैभवा जवात्,
चिरायुषोऽधिकश्रियस्सुसूनवो न संशयः ॥
- malayalamഗണേശ മണിമാലാ സ്തോത്രം
- teluguగణేశ మణిమాలా స్తోత్రం
- tamilகணேச மணிமாலா ஸ்தோத்திரம்
- kannadaಗಣೇಶ ಮಣಿಮಾಲಾ ಸ್ತೋತ್ರ
- hindiगणेश मणिमाला स्तोत्र
- malayalamകല്പക ഗണപതി സ്തോത്രം
- teluguకల్పక గణపతి స్తోత్రం
- tamilகல்பக கணபதி ஸ்தோத்திரம்
- kannadaಕಲ್ಪಕ ಗಣಪತಿ ಸ್ತೋತ್ರ
- hindiकल्पक गणपति स्तोत्र
- gujaratiશ્રી ગણેશ પઞ્ચરત્ન સ્તોત્રમ્
- punjabiਸ਼੍ਰੀ ਗਣੇਸ਼ ਪਞ੍ਚਰਤ੍ਨ ਸ੍ਤੋਤ੍ਰਮ੍
- bengaliশ্রী গণেশ পঞ্চরত্ন স্তোত্রম্
- odiaଶ୍ରୀ ଗଣେଶ ପଞ୍ଚରତ୍ନ ସ୍ତୋତ୍ରମ୍
- tamilஶ்ரீ க³ணேஶ பஞ்சரத்ன ஸ்தோத்ரம்
Found a Mistake or Error? Report it Now
![Download HinduNidhi App](https://hindunidhi.com/download-hindunidhi-app.png)