Shri Ganesh

देवाकृता श्रीगजाननस्तुतिः

Gajananastutih Devakrrita Sanskrit

Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

 || देवाकृता श्रीगजाननस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

देवा ऊचुः ।
गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते ।
विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥ २२॥

अमेयाय च हेरम्बाय ते परशुधारक ।
मूषकवाहनायैव विघ्नेशाय नमो नमः ॥ २३॥

अनन्तविभवायैव परेषां पररूपिणे ।
गुहाग्रजाय देवाय शिवपुत्राय ते नमः ॥ २४॥

पार्वतीनन्दनायैव देवानां पालकाय ते ।
सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥ २५॥

स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत ।
विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥ २६॥

योगाकाराय सर्वेषां योगशान्तिप्रदाय च ।
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूयप्रदाय ते ॥ २७॥

सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने ।
मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥ २८॥
लम्बोदराय वै तुभ्यं सर्वोदरगताय च ।

अमायिने च मायाया आधाराय नमो नमः ॥ २९॥

गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप ।
योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥ ३०॥

तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन ।
वेदादयो विकुण्ठाश्च शङ्कराद्याश्च देवपाः ॥ ३१॥

शुकादयश्च शेषाद्याः स्तोतुं शक्ता भवन्ति न ।
तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥ ३२॥

गजाननं प्रणेमुस्तमेवमुक्त्वा शिवादयः ।
स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥ ३३॥

(फलश्रुतिः)
श्रीगजानन उवाच ।
भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
पठते श‍ृण्वते देवा ब्रह्मभूयप्रदायकम् ॥ ३४॥

इति देवाकृता श्रीगजाननस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download देवाकृता श्रीगजाननस्तुतिः PDF

देवाकृता श्रीगजाननस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App