Shri Ganesh

शिवकृता श्रीगणेशस्तुतिः

Ganeshastutih Shivakrrita Sanskrit

Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| शिवकृता श्रीगणेशस्तुतिः ||

शिव उवाच ।
त्वमेव विश्वेश्वर विश्वरूप ! विश्वं सृजस्यत्सि हि पासि देव ! ।
शुभाशुभं कर्म निरिक्ष्य तस्य ददासि भोगं विविधं गणेश ! ॥ ५॥

ब्रह्मेङ्गितात्ते जगतीं विधत्ते तद्रक्षणं चैव हरिस्थताऽहम् ।
(ब्रह्मापि सृष्टि कुरुतेङ्गितात्ते)
संहारकारीह चराचरस्य विभागकृत्यं हि गुणत्रयस्य ॥ ६॥

तव प्रसादाद्धरिरब्जजोऽपि शिवश्च शक्तो निजकर्मसिद्ध्यै ।
त्वया विना वेदविधिर्वृथा स्यात् त्वदीयशक्त्या सुरशत्रुनाशः ॥ ७॥

अनन्तशक्तिः प्रकृतिः पुरा त्वां समर्च्य दुष्टं महिषं जघान ।
यच्छ्वासनिर्धूतनगप्रपातभीतं जगत्कृत्स्नमिदं ररक्ष ॥ ८॥

त्वमप्रमेयोऽखिललोकसाक्षी त्वमव्ययः कारणकारणं च।
वेदा विकुण्ठास्त्वयि सर्व एव शेषो धराभृत्तव भक्तितो हि ॥ ९॥

त्वामेव नत्वा परिपूजयन्तः सन्तो यजन्ते मनसा स्मरन्तः ।
त्वय्येव भक्तिं परिकल्पयन्तो मुक्तिं भजन्ते परिवृत्तिहीनाः ॥ १०॥

अनेकरूपाङ्घ्रिविलोचनस्त्वमनेकशीर्षश्रुतिबाहुजिह्वः ।
अनन्तविज्ञानघनो ह्यनेकब्रह्माण्डहेतुः परमप्रकाशः ॥ ११॥

तव प्रसादादविमुक्तमेतद् दृष्टं चिराद् यत्नवताऽखिलेश ! ।
मुनिरुवाच ।
एवं स्तुत्वा च सम्पूज्य प्रार्थयामास शङ्करः ॥ १२॥

गतं विरहदुःख मे प्राप्य वाराणसीं पुरीम् ।
इदानीं सर्वदा रक्ष मद्भक्ताँश्च पुरीमिमाम् ॥ १३॥

विना प्रसादं ते न स्यात् काशीवासः कदाचन ।
दण्डपाणेर्भैरवस्य तेऽपि यस्य कृपा भवेत् ॥ १४॥

तारकं ब्रह्म तस्यान्ते दिशामि च न चान्यथा ।
माघमासी चतुर्थ्यां यो भौमवारे विधूदये ॥ १५॥

अपूपैर्मोदकैरन्यैरुपचारैः प्रपूजयेत् ।
संहृत्य तस्य सङ्कष्टं स्तोत्रपाठेन यो नुयात् ॥ १६॥

तस्यापि सकलान् कामान् यच्छ लक्ष्मीमनेकधा ।
य इदं प्रातरुत्थाय त्रिसन्ध्यं वापि भक्तितः ॥ १७॥

पठेत् स्तोत्रं सकृद् वापि भुक्तिर्मुक्तिश्च तस्य च ।
अन्वेषयित्वा सर्वार्थान् विदधासि नृणामिह ॥ १८॥

अतो ढुण्ढिरिति ख्यातस्त्रिलोक्यां त्वं भविष्यसि ! ।
ढुण्ढिरित्येव तं नाम मुक्तिदं पापनाशनम् ॥ १९॥

स्मरणात् सर्वकार्याणां सिद्धिदं चभविष्यति ।

इति शिवकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download शिवकृता श्रीगणेशस्तुतिः PDF

शिवकृता श्रीगणेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App