Misc

गुरु – बृहस्पति कवच

Guru Brhaspati Kavach Sanskrit Lyrics

Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| गुरु – बृहस्पति कवच ||

अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य ईश्वर ऋषिः । अनुष्टुप् छन्दः । बृहस्पतिर्देवता । अं बीजं । श्रीं शक्तिः । क्लीं कीलकं । मम बृहस्पतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः ॥

गां अङ्गुष्ठाभ्यां नमः । गीं तर्जनीभ्यां नमः ।
गूं मध्यमाभ्यां नमः । गैं अनामिकाभ्यां नमः ।
गौं कनिष्ठिकाभ्यां नमः ।गः करतलकरपृष्ठाभ्यां नमः ॥

अंगन्यासः ॥

गां हृदयाय नमः । गीं शिरसे स्वाहा । गूं शिखायै वषट् ।
गैं कवचाय हुम् । गौं नेत्रत्रयाय वौषट् । गः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बंधः ॥

ध्यानम्

तप्तकाञ्चनवर्णाभं चतुर्भुजसमन्वितम्

दण्डाक्षसूत्रमालां च कमण्डलुवरान्वितम् ।

पीतांबरधरं देवं पीतगन्धानुलेपनम्

पुष्परागमयं भूष्णुं विचित्रमकुटोज्ज्वलम् ॥

स्वर्णाश्वरथमारूढं पीतध्वजसुशोभितम् ।

मेरुं प्रदक्षिणं कृत्वा गुरुदेवं समर्चयेत् ॥

अभीष्टवरदं देवं सर्वज्ञं सुरपूजितम् ।

सर्वकार्यार्थसिद्ध्यर्थं प्रणमामि गुरुं सदा ॥

कवच

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।

कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥ १ ॥

नासां पातु सुराचार्यो जिह्वां मे वेदपारगः ।

मुखं मे पातु सर्वज्ञो भुजौ पातु शुभप्रदः ॥ २ ॥

करौ वज्रधरः पातु वक्षौ मे पातु गीष्पतिः ।

स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ ३ ॥

नाभिं पातु सुनीतिज्ञः कटिं मे पातु सर्वदः ।

ऊरू मे पातु पुण्यात्मा जङ्घे मे ज्ञानदः प्रभुः ॥ ४ ॥

पादौ मे पातु विश्वात्मा सर्वाङ्गं सर्वदा गुरुः ।

य इदं कवचं दिव्यं त्रिसन्ध्यासु पठेन्नरः ॥ ५ ॥

सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ।

सर्वत्र पूज्यो भवति वाक्पतिश्च प्रसादतः ॥ ६ ॥

इति ब्रह्मवैवर्तपुराणे उत्तरखंडे बृहस्पति कवचः ।

Found a Mistake or Error? Report it Now

Download गुरु - बृहस्पति कवच PDF

गुरु - बृहस्पति कवच PDF

Leave a Comment

Join WhatsApp Channel Download App