Misc

श्रीगुरुशिवानन्दस्तोत्रम्

Gurushivanandastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगुरुशिवानन्दस्तोत्रम् ||

(अनुष्टुप्छन्दः)
शिवानन्दं दयासिन्धुं सुन्दरानन्दविग्रहम् ।
भवाब्धितारकं वन्दे ज्ञानविज्ञानदं शुभम् ॥ १॥

सच्चित्सुखघनाकारं जगतः स्थितिकारणम् ।
आत्मरूपं परं शान्तं शिवानन्दगुरुं भजे ॥ २॥

अहंस्फूर्तितरङ्गस्थं चिदानन्दाब्धिरूपकम् ।
मुमुक्षुनलिनीचन्द्रं शिवानन्दगुरुं स्तुवे ॥ ३॥

अज्ञानरजनीसूर्यं तप्तचित्तसुधाघनम् ।
भवरोगभिषग्रत्नं शिवानन्दं गुरुं श्रये ॥ ४॥

कुण्डले कटकं यद्वत् मृगाम्भसि च आतपः ।
तद्वज्जगति यत्सत्यं तस्मिन् शिवपदे रमे ॥ ५॥

इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीगुरुशिवानन्दस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीगुरुशिवानन्दस्तोत्रम् PDF

श्रीगुरुशिवानन्दस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App