|| गुरुपरब्रह्मपरमात्मास्तोत्रम् ||
(अनुष्टुप्छन्दः)
जगतकारणं नित्यं ब्रह्मैवास्ति नचीतरतः ।
आनन्दघनरूपं यज्ज्ञात्वा तत्त्वात्मरूपतः ॥ १॥
स्वान्यत्सर्वं परित्यज्य स्वात्ममात्रतया स्थितिः ।
सच्चिदानन्दरूपेण संन्यासः स प्रकीर्तितः ॥ २॥
संन्यासी स्वात्मयात्रो हि नित्यं ब्रह्मात्मरूपतः ।
मायाजीवो जगद्वापि पश्यन्नपि न पश्यति ॥ ३॥
वन्ध्याकुमारवत्सर्वं तस्यस्यादसदेव हि ।
आनन्दघनरूपोऽसौ निर्विकल्पः सदा शुचिः ॥ ४॥
परिशुद्ध पराकाशे चिदानन्दघने शुभे ।
आस्तां भविस्थितिर्यित्यं स्वात्ममात्रतया सदा ॥ ५॥
इति श्रीसमर्थरामदासानुगृहित श्रीरामपदपङ्कजभृङ्गायमान
श्रीसत्परमहंस परिव्राजकाचार्यवर भगवता श्रीश्रीधरस्वामिना
विरचितं श्रीगुरु परब्रह्मपरमात्मने नमः स्त्रोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now