हनुमत् पंचरत्न स्तोत्र PDF हिन्दी
Download PDF of Hanumat Pancharatnam Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
|| हनुमत् पंचरत्न स्तोत्र || वीताखिलविषयच्छेदं जातानन्दाश्रु- पुलकमत्यच्छम्। सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम्। तरुणारुणमुखकमलं करुणारसपूर- पूरितापाङ्गम्। सञ्जीवनमाशासे मञ्जुलमहिमान- मञ्जनाभाग्यम्। शम्बरवैरिशरातिग- मम्बुजदलविपुल- लोचनोदारम्। कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठ- मेकमवलम्बे। दूरीकृतसीतार्तिः प्रकटीकृतराम- वैभवस्फूर्तिः। दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः। वानरनिकराध्यक्षं दानवकुलकुमुद- रविकरसदृक्षम्। दीनजनावनदीक्षं पवनतपःपाक- पुञ्जमद्राक्षम्। एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम्। चिरमिह निखिलान् भोगान् भुङ्क्त्वा श्रीरामभक्तिभाग् भवति।
READ WITHOUT DOWNLOADहनुमत् पंचरत्न स्तोत्र
READ
हनुमत् पंचरत्न स्तोत्र
on HinduNidhi Android App