Hanuman Ji

श्रीहनूमत्स्तोत्रम् २

Hanumatstotram2 Sanskrit Lyrics

Hanuman JiStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीहनूमत्स्तोत्रम् २ ||

आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।
अकस्मादागतोत्पातनाशनाय नमो नमः ॥ १॥

वामे करे वैरिभिदं वहन्तं शैलं परे श‍ृङ्खलहारटङ्कम् ।
दधानमच्छाच्छसुवर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ २॥

विभीषण उवाच
सीतावियुक्ते श्रीरामे शोकदुःखभयापह ।
तापत्रयाग्निसंहारिन्नाञ्जनेय नमोऽस्तुते ॥ ३॥

आधिव्याधिमहामारिग्रहपीडापहारिणे ।
प्राणापहर्त्रे दैत्यानां रामप्रियहितात्मने ॥ ४॥

संसारसागरावर्तगतनिश्रान्तचेतसाम् ।
शरणागतसञ्जीवी सौमित्रिप्राणरक्षकः ॥ ५॥

सुचरित्रः सदानन्दः सर्वदा भक्तवत्सलः ।
सुरद्विषां सुसंहारी सुग्रीवानन्दवर्धनः ॥ ६॥

य इदं हनुमत्स्तोत्रं पठेन्नित्यं नरोत्तमः ।
सिद्ध्यन्ति सर्वकार्याणि धनधान्यसमृद्धयः ॥ ७॥

मृत्युदारिद्र्यनाशं च सङ्ग्रामे विजयी भवेत् ।
लाभं च राजवश्यं च सत्यं पावनकीर्तनम् ॥ ८॥

परं मन्त्रं परं तन्त्रं परयन्त्रं निवारयेत् ।
परविद्याविनाशं च ह्यात्ममन्त्रस्य रक्षकम् ॥ ९॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीहनूमत्स्तोत्रम् २ PDF

श्रीहनूमत्स्तोत्रम् २ PDF

Leave a Comment

Join WhatsApp Channel Download App