|| हाटकेश्वराष्टकम् (Hatkeshvar Ashtakam Sanskrit PDF) ||
जटातटान्तरोलसत्सुरापगोर्मिभास्वरं
ललाटनेत्रमिन्दुनाविराजमानशेखरम् ।
लसद्विभूतिभूषितं फणीन्द्रहारमीश्वरं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥
पुरान्धकादिदाहकं मनोभवप्रदाहकं
महाधराशिनाशकमभीप्सितार्थदायकम् ।
जगत्त्रयैककारकं विभाकरं विदारकं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥
मदीय मानसस्थले सदास्तु ते पदद्वयं
मदीय वक्त्रपङ्कजे शिवेति चाक्षरद्वयम् ।
मदीय लोचनाग्रतः सदार्धचन्द्रविग्रहं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥
भजन्ति हाटकेश्वरं सुभक्तिभावतोत्रये
भवन्ति हाटकेश्वरः प्रमाणमात्र नागरः ।
धनेन तेज साधिका कुलेन चाखिलोन्नता
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥
सदाशिवोऽहमित्यहर्निशं भजेत यो जनः
सदा शिवं करोति तं न संशयोत्र कश्चन ।
अहो दयालुता महेश्वरस्य दृश्यतां बुधा
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥
धराधरात्मजापते त्रिलोचनेश शङ्कर
गिरीश चन्द्रशेखराहिराज भूषणेश्वरः ।
महेश नन्दिवाहनेति सङ्घटन्नहर्निशं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥
महेश पाहि मां मुदा गिरीश पाहि मां सदा
भवार्णवे निमज्जितो त्वमेवमेऽसि तारकः ।
करावलम्बनं झटित्य होधुनां प्रदीयतां
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥
धराधरेश्वरेश्वरं शिवं निधीश्वरेश्वरं
सुरासुरेश्वरं रमापतिश्वरं महेश्वरम् ।
प्रचण्ड चण्डीकेश्वरं विनीत नन्दिकेश्वरं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥
हाटकेशस्य भक्त्या यो हाटकेशाष्टकं पठेत् ।
हाटकेश प्रसादेन हाटकेशत्वमाप्नुयात् ॥
इति श्रीहाटकेश्वराष्टकं सम्पूर्णम् ।
Read in More Languages:- hindiश्री शिवाष्टकम्
- hindiश्री शिव रामाष्टकम
- hindiश्री शिवमङ्गलाष्टकम्
- odiaବିଲ୍ଵାଷ୍ଟକମ୍
- gujaratiબિલ્વાષ્ટકમ્
- hindiपार्वतीवल्लभ नीलकण्ठाष्टकम्
- hindiश्री चंद्रशेखर अष्टकम
- kannadaಚಂದ್ರಶೇಖರಾಷ್ಟಕಂ
- tamilஶ்ரீ சந்த்ரஶேகராஷ்டகம்
- englishShri Chandrasekhara Ashtakam
- teluguచంద్రశేఖర్ అష్టకం
- teluguరుద్రాష్టకం
- kannadaಶ್ರೀ ರುದ್ರಾಷ್ಟಕಂ
- tamilஶ்ரீ ருத்³ராஷ்டகம்
- teluguశ్రీ వైద్యనాథ అష్టకమ
Found a Mistake or Error? Report it Now
