|| हयानन पंचक स्तोत्र ||
उरुक्रममुदुत्तमं हयमुखस्य शत्रुं चिरं
जगत्स्थितिकरं विभुं सवितृमण्डलस्थं सुरम्।
भयापहमनामयं विकसिताक्षमुग्रोत्तमं
हयाननमुपास्महे मतिकरं जगद्रक्षकम्।
श्रुतित्रयविदां वरं भवसमुद्रनौरूपिणं
मुनीन्द्रमनसि स्थितं बहुभवं भविष्णुं परम्।
सहस्रशिरसं हरिं विमललोचनं सर्वदं
हयाननमुपास्महे मतिकरं जगद्रक्षकम्।
सुरेश्वरनतं प्रभुं निजजनस्य मोक्षप्रदं
क्षमाप्रदमथाऽऽशुगं महितपुण्यदेहं द्विजैः।
महाकविविवर्णितं सुभगमादिरूपं कविं
हयाननमुपास्महे मतिकरं जगद्रक्षकम्।
कमण्डलुधरं मुरद्विषमनन्त- माद्यच्युतं
सुकोमलजनप्रियं सुतिलकं सुधास्यन्दितम्।
प्रकृष्टमणिमालिकाधरमुरं दयासागरं
हयाननमुपास्महे मतिकरं जगद्रक्षकम्।
शरच्छशिनिभच्छविं द्युमणितुल्यतेजस्विनं
दिवस्पतिभवच्छिदं कलिहरं महामायिनम्।
बलान्वितमलङ्कृतं कनकभूषणैर्निर्मलै-
र्हयाननमुपास्महे मतिकरं जगद्रक्षकम्।
Found a Mistake or Error? Report it Now