काली ह्रदय स्तोत्र PDF संस्कृत
Download PDF of Kali Hridaya Stotra Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
काली ह्रदय स्तोत्र संस्कृत Lyrics
|| काली ह्रदय स्तोत्र ||
ॐ ध्यायेत्कालीं महामायां त्रिनेत्रां बहुरूपिणीम् ।
चतुर्भुजां ललजिह्वां पूर्णचन्द्रनिभाननाम् ॥ १॥
नीलोत्पलदलप्रख्यां शत्रुसङ्घविदारिणीम् ।
नरमुण्डं तथा खङ्गं कमलं वरदं तथा ॥ २॥
बिभ्राणां रक्तवदनां दंष्ट्रालीं घोररूपिणीम् ।
अट्टाट्टहासनिरतां सर्वदा च दिगम्बराम् ॥ ३॥
शवासनस्थितां देवीं मुण्डमालाविभूषिताम् ।
इति ध्यात्वा महादेवीं ततस्तु हृदयं पठेत् ॥ ४॥
ॐ कालिका घोररूपाढया सर्वकामफलप्रदा ।
सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥ ५॥
ह्रींह्रींस्वरूपिणी श्रेष्ठा त्रिषु लोकेषु दुर्लभा ।
तव स्नेहान्मया ख्यातं न देयं यस्य कस्यचित् ॥ ६॥
अथ ध्यानं प्रवक्ष्यामि निशामय परात्मिके ।
यस्य विज्ञानमात्रेण जीवन्मुक्तो भविष्यति ॥ ७॥
नागयज्ञोपवीताञ्च चन्द्रार्द्धकृतशेखराम् ।
जटाजूटाञ्च सञ्चिन्त्य महाकालसमीपगाम् ॥ ८॥
एवं न्यासादयः सर्वे ये प्रकुर्वन्ति मानवाः ।
प्राप्नुवन्ति च ते मोक्षं सत्यं सत्यं वरानने ॥ ९॥
यन्त्रं श्रृणु परं देव्याः सर्वार्थसिद्धिदायकम् ।
गोप्यं गोप्यतरं गोप्यं गोप्यं गोप्यतरं महत् ॥ १०॥
त्रिकोणं पञ्चकं चाष्टकमलं भूपुरान्वितम् ।
मुण्डपङ्क्तिं च ज्वालां च कालीयन्त्रं सुसिद्धिदम् ॥ ११॥
मन्त्रं तु पूर्वकथितं धारयस्व सदा प्रिये ।
देव्या दक्षिणकाल्यास्तु नाममालां निशामय ॥ १२॥
काली दक्षिणकाली च कृष्णरूपा परात्मिका ।
मुण्डमाला विशालाक्षी सृष्टिसंहारकारिका ॥ १३ ॥
स्थितिरूपा महामाया योगनिद्रा भगात्मिका ।
भगसर्पिःपानरता भगोद्योता भगाङ्गजा ॥ १४ ॥
आद्या सदा नवा घोरा महातेजाः करालिका ।
प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥ १५॥
एतानि नाममाल्यानि ये पठन्ति दिने दिने ।
तेषां दासस्य दासोऽहं सत्यं सत्यं महेश्वरि ॥ १६॥
ॐ कालीं कालहरां देवी कङ्कालबीजरूपिणीम् ।
कालरूपां कलातीतां कालिकां दक्षिणां भजे ॥ १७॥
कुण्डगोलप्रियां देवीं खयम्भूकुसुमे रताम् ।
रतिप्रियां महारौद्रीं कालिकां प्रणमाम्यहम् ॥ १८॥
दूतीप्रियां महादूतीं दूतीयोगेश्वरीं पराम् ।
दूतोयोगोद्भवरतां दूतीरूपां नमाम्यहम् ॥ १९॥
क्रींमन्त्रेण जलं जप्त्वा सप्तधा सेचनेन तु ।
सर्वे रोगा विनश्यन्ति नात्र कार्या विचारणा ॥ २०॥
क्रींस्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः ।
तिलकं क्रियते प्राज्ञैर्लोको वश्यो भवेत्सदा ॥ २१॥
क्रीं हूं ह्रीं मन्त्रजप्तैश्च ह्यक्षतैः सप्तभिः प्रिये ।
महाभयविनाशश्च जायते नात्र संशयः ॥ २२॥
क्रीं ह्रीं ह्रूं स्वाहा मन्त्रेण श्मशानाग्निं च मन्त्रयेत् ।
शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति ॥ २३॥
ह्रूं ह्रीं क्रीं चैव उच्चाटे पुष्पं संशोध्य सप्तधा ।
रिपूणां चैव चोच्चाटं नयत्येव न संशयः ॥ २४॥
आकर्षणे च क्रीं क्रीं क्रीं जप्त्वाऽक्षतान् प्रतिक्षिपेत् ।
सहस्रयोजनस्था च शीघ्रमागच्छति प्रिये ॥ २५॥
क्रीं क्रीं क्रीं ह्रूं ह्रूं ह्रीं ह्रीं च कज्जलं शोधितं तथा ।
तिलकेन जगन्मोहः सप्तधा मन्त्रमाचरेत् ॥ २६॥
हृदयं परमेशानि सर्वपापहरं परम् ।
अश्वमेधादियज्ञानां कोटिकोटिगुणोत्तरम् ॥ २७॥
कन्यादानादिदानानां कोटिकोटिगुणं फलम् ।
दूतीयागादियागानां कोटिकोटिफलं स्मृतम् ॥ २८॥
गङ्गादिसर्वतीर्थानां फलं कोटिगुणं स्मृतम् ।
एकधा पाठमात्रेण सत्यं सत्यं मयोदितम् ॥ २९॥
कौमारीस्वेष्टरूपेण पूजां कृत्वा विधानतः ।
पठेत्स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ॥ ३०॥
रजस्वलाभगं दृष्ट्वा पठेदेकाग्रमानसः ।
लभते परमं स्थानं देवीलोके वरानने ॥ ३१॥
महादुःखे महारोगे महासङ्कटके दिने ।
महाभये महाघोरे पठेतस्तोत्रं महोत्तमम् ।
सत्यं सत्यं पुनः सत्यं गोपायेन्मातृजारवत् ॥ ३२॥
॥ इति श्रीकाली ह्रदय ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowकाली ह्रदय स्तोत्र
READ
काली ह्रदय स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
