|| श्रीखोजीदेवाचार्याष्टकम् ||
आनन्दभाष्यसिद्धान्तप्रबोद्धारं तपोनिधिम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
रामानन्दमताभिज्ञं रामानन्दानुयायिनम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
मायावादं पराजित्य विशिष्टाद्वैतपोषकम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
ऊर्ध्वपुण्ड्रादिसंस्कारैर्वैष्णवत्वविधायकम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
रहस्यानां प्रवक्तारं रहस्यानां प्रदायिनम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
मुक्तिधामप्रदातारं भक्त्या श्रीरामसीतयोः ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
रामसेवारतं नित्यं रामकीर्त्तनतत्परम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
राघवोपासकं सिद्धं राघवदासनामकम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीखोजीदेवाचार्याष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now