ललिता कवच
|| ललिता कवच (Lalita Kavacham PDF) || सनत्कुमार उवाच – अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम्। येन देवासुरनरजयी स्यात्साधकः सदा। सर्वतः सर्वदाऽऽत्मानं ललिता पातु सर्वगा। कामेशी पुरतः पातु भगमाली त्वनन्तरम्। दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा। नित्यक्लिन्नाथ भेरुण्डा दिशं मे पातु कौणपीम्। तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी। महावज्रेश्वरी नित्या वायव्ये मां सदावत। वामपार्श्वं सदा पातु…