Download HinduNidhi App
Misc

श्री ललिता पुष्पाञ्जलि स्तोत्रम्

Lalita Pushpanjali Stotram Sanskrit

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| श्रीललितापुष्पाञ्जलिस्तोत्रम् ||

ॐ समस्तमुनियक्षकिम्पुरुषसिद्धविद्याधर-
ग्रहासुरसुराप्सरोगणमुखैर्गणैः सेविते! ।
निवृत्तितिलकाम्बराप्रकृतिशान्तिविद्याकला-
कलापमधुराकृते कलित एष पुष्पाञ्जलिः ॥

त्रिवेदकृतविग्रहे, त्रिविधकृत्यसन्धायिनि,
त्रिरूपसमवायिनि त्रिपुरमार्गसञ्चारिणि! ।
त्रिलोचनकुटुम्बिनि त्रिगुणसंविदुद्युत्पदे
त्रयि, त्रिपुरसुन्दरि, त्रिजगदीशि! पुष्पाञ्जलिः ॥

पुरन्दरजलाधिपान्तककुबेररक्षोहर-
प्रभञ्जनधनञ्जयप्रभृतिवन्दनानन्दिते! ।
प्रवालपदपीठीकानिकटनित्यवर्तिस्वभू-
विरिञ्चिविहितस्तुते! विहित एष पुष्पाञ्जलिः ॥

यदानतिबलादहङ्कृतिरुदेति विद्यावय-
स्तपोद्रविणरूपसौरभकवित्वसंविन्मयि! ।
जरामरणजन्मजं भयमुपैति तस्यै समा-
खिलसमीहितप्रसवभूमि! तुभ्यं नमः ॥

निरावरणसंविदुद्भ्रमपरास्तभेदोल्लसत्-
परात्परचिदेकतावरशरीरिणि, स्वैरिणि! ।
रसायनतरङ्गिणीरुचितरङ्गसञ्चारिणि!,
प्रकामपरिपूरिणि! प्रकृत एष पुष्पाञ्जलिः ॥

तरङ्गयति सम्पदं तदनुसंहरत्यापदं
सुखं वितरति श्रियं परिचिनोति हन्ति द्विषः ।
क्षिणोति दुरितानि यत् प्रणतिरम्ब! तस्यै सदा
शिवङ्करि! शिवे पदे, शिवपुरन्ध्रि तुभ्यं नमः ॥

शिवे, शिवसुशीतलामृततरङ्गगन्धोल्लस-
न्नवावरणदेवते!, नवनवामृतस्पन्दिनी! ।
गुरुक्रमपुरस्कृते! गुणशरीरनित्योज्ज्वले!
षडङ्गपरिवारिते! कलित एष पुष्पाञ्जलिः ॥

त्वमेव जननी पिता त्वमथ बन्धवस्त्वं सखा
त्वमायुरपरा त्वमाभरणमात्मनस्त्वं कलाः ।
त्वमेव वपुषः स्थितिस्त्वमखिला यतिस्त्वं गुरुः
प्रसीद परमेश्वरि! प्रणतपात्रि, तुभ्यं नमः ॥

कञ्जासनादिसुरवृन्दलसत्किरीट-
कोटिप्रघर्षणसमुज्ज्वलदङ्घ्रिपीठे ।
त्वामेव यामि शरणं विगतान्यभावं दी
नं विलोकय यदार्द्रविलोकनेन ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री ललिता पुष्पाञ्जलि स्तोत्रम् PDF

श्री ललिता पुष्पाञ्जलि स्तोत्रम् PDF

Leave a Comment