चंद्र ग्रहण दोष निवारण स्तोत्र
|| चंद्र ग्रहण दोष निवारण स्तोत्र || योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः। सहस्रनयनश्चन्द्र- ग्रहपीडां व्यपोहतु। मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः। चन्द्रोपरागसम्भूतामग्निः पीडां व्यपोहतु। यः कर्मसाक्षी लोकानां यमो महिषवाहनः। चन्द्रोपरागसम्भूतां ग्रहपीडां व्यपोहतु। रक्षोगणाधिपः साक्षात् प्रलयानिलसन्निभः। करालो निर्ऋतिश्चन्द्रग्रहपीडां व्यपोहतु। नागपाशधरो देवो नित्यं मकरवाहनः। सलिलाधिपतिश्चन्द्र- ग्रहपीडां व्यपोहतु। प्राणरूपो हि लोकानां वायुः कृष्णमृगप्रियः। चन्द्रोपरागसम्भूतां ग्रहपीडां व्यपोहतु। योऽसौ निधिपतिर्देवः खड्गशूलधरो वरः।…