Download HinduNidhi App
Shiva

श्री अघोराष्टकम्

Aghor Ashtakam Sanskrit

ShivaAshtakam (अष्टकम निधि)संस्कृत
Share This

|| श्री अघोराष्टकम् ||

कालाभ्रोत्पलकालगात्रमनलज्वालोर्ध्वकेशोज्ज्वलं
दंष्ट्राद्यस्फुटदोष्ठबिम्बमनलज्वालोग्रनेत्रत्रयम् ।
रक्ताकोरकरक्तमाल्यरचितं(रुचिरं)रक्तानुलेपप्रियं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥

जङ्घालम्बितकिङ्किणीमणिगणप्रालम्बिमालाञ्चितं
(दक्षान्त्रं)डमरुं पिशाचमनिशं शूलं च मूलं करैः ।
घण्टाखेटकपालशूलकयुतं वामस्थिते बिभ्रतं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥

नागेन्द्रावृतमूर्ध्निज(र्धज) स्थित(श्रुति)गलश्रीहस्तपादाम्बुजं
श्रीमद्दोःकटिकुक्षिपार्श्वमभितो नागोपवीतावृतम् ।
लूतावृश्चिकराजराजितमहाहाराङ्कितोरस्स्थलं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥

धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि(यत्कृन्तति)प्राणिनां
पाशान्ये क्षुरिकास्त्रपाशदलितग्रन्थिं शिवास्त्राह्वयं (?) ।
विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥

घोराघोरतराननं स्फुटदृशं सम्प्रस्फुरच्छूलकं
प्राज्यां(ज्यं)नृत्तसुरूपकं चटचटज्वालाग्नितेजःकचम् ।
(जानुभ्यां)प्रचटत्कृता(रिनिकरं)स्त्रग्रुण्डमालान्वितं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥

भक्तानिष्टकदुष्टसर्पदुरितप्रध्वंसनोद्योगयुक्
हस्ताग्रं फणिबद्धहस्तचरणं प्रारब्धयात्रापरम् ।
स्वावृत्त्यास्थितभीषणाङ्कनिकरप्रारब्धसौभाग्यकं ?
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥

यन्मन्त्राक्षरलाञ्छितापघनवन्मर्त्याश्च(च्च) वज्रार्चिषो
भूतप्रेतपिशाचराक्षसकलानिर्घातपाता इव(दिव) ।
उत्सन्नाश्च भवन्ति सर्वदुरितप्रोच्चाटनोत्पादकं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥

यद्ध्यानो ध्रुवपूरुषो(ध्यानोद्यतपूरुषो)षितगृहग्रामस्थिरास्थायिनो
भूतप्रेतपिशाचराक्षसप्रतिहता निर्घातपाता इव ।
यद्रूपं विधिना स्मरन् हि विजयी शत्रुक्षयं प्राप्नुते
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥

॥ इति श्रीअघोराष्टकं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री अघोराष्टकम् PDF

श्री अघोराष्टकम् PDF

Leave a Comment