गणेशस्तुतिः तत्त्वैः कृता
|| गणेशस्तुतिः तत्त्वैः कृता || श्रीगणेशाय नमः । तत्त्वान्यूचुः । नमस्ते वक्रतुण्डाय भक्तसंरक्षकाय च । सर्वाधीशाय सर्वाय गणानां पतये नमः ॥ ३९॥ अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः । समाय विषमायैव विघ्नेशाय नमो नमः ॥ ४०॥ आत्मनेऽनात्मने तुभ्यं निर्गुणाय गुणात्मने । नामरूपधरायैव द्वाभ्यां हीनाय ते नमः ॥ ४१॥ अनन्तोदरसंस्थाय नानाभोगकराय च । भोगहीनाय सर्वत्र स्वानन्दपतये नमः ॥…