Shri Ganesh

काशिराजो जना कृता श्रीगणेशस्तुतिः

Ganeshastuti Kashirajojanakrrita Sanskrit

Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| काशिराजो जना कृता श्रीगणेशस्तुतिः ||

ऋषयो लोकपालाश्च भक्त्या देवं विनायकम् ।
नाथस्त्वमसि देवानां मनुष्योरगरक्षसाम् ॥ ६०॥

यक्षगन्धर्वविप्राणां गजाश्वरथपक्षिणाम् ।
भूतभव्यभविष्यस्य बुद्धीन्द्रियगणस्य च ॥ ६१॥

हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहवोः ।
अर्थस्य कार्यजातस्य लाभहान्योस्तथैव च ॥ ६२॥

स्वर्गपाताललोकानां पृथिव्या जलधेरपि ।
नक्षत्राणां ग्रहाणां चपिशाचानां चवीरुधाम् ॥ ६३॥

वृक्षाणां सरितां पुंसां स्त्रीणां बालजनस्य च ।
उत्पत्तिस्थिति संहारकारिणे ते नमो नमः ॥ ६४॥

पशूनां पतये तुभ्यं तत्वज्ञानप्रदायिने ।
नमो विष्णुस्वरूपाय नमस्ते रुद्ररूपिणे ॥ ६५॥

नमस्ते ब्रह्मरूपाय नमोऽनन्तस्वरूपिणे ।
मोक्षहेतो ! नमस्तुभ्यं नमो विघ्नहराय ते ॥ ६६॥

नमोऽभक्तविनाशाय नमो भक्तप्रियाय च ।
अधिदैवाधिभूतात्मन् ! तापत्रयहराय ते ॥ ६७॥

सर्वोत्पातविघाताय नमो लीलास्वरूपिणे ।
सर्वान्तर्यामिणे तुभ्यं सर्वाध्यक्षाय ते नमः ॥ ६८॥

अदित्या जठरोत्पन्न ! विनायक ! नमोऽस्तु ते ।
परब्रह्मस्वरूपाय नमः कश्यपसूनवे ॥ ६९॥

अमेयमायान्वित विक्रमाय मायाविने मायिकमोहनाय ।
अमेयमायाहरणाय मायामहाश्रयायास्तु नमो नमस्ते ॥ ७०॥

एवं स्तुत्वा तु ते सर्वे ययुः स्वं स्वं गृहं मुदा ।
त्यक्त्वा तां राक्षसीं छित्त्वा खण्डशो दूरतः पुरात् ॥ ७१॥

य इदं पठते स्तोत्रं त्रिसन्ध्योत्पातनाशनम् ।
न भवन्ति महोत्पाता विघ्ना भूतभयानि च ॥ ७२॥

त्रिसन्ध्यं यः पठेत् स्तोत्रं सर्वान् कामानवाप्नुयात् ।
विनायकः सदा तस्य रक्षणं कुरतेऽनघ ॥ ७३॥

इति काशिराजकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download काशिराजो जना कृता श्रीगणेशस्तुतिः PDF

काशिराजो जना कृता श्रीगणेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App