श्रीपादाष्टकम्

|| श्रीपादाष्टकम् || वेदान्तवेद्यं वरयोगिरुपं जगत्प्रकाशं सुरलोकपूज्यम् । इष्टार्थसिद्धिं करुणाकरेशं श्रीपादराजं शरणं प्रपद्ये ॥ १ ॥ योगीशरुपं परमात्मवेषं सदानुरागं सहकार्यरुपम् । वरप्रसादं विबुधैकसेव्यं श्रीपादराजं शरणं प्रपद्ये ॥ २ ॥ काषायवस्त्रं करदण्डधारिणं कमण्डलुं पद्मकरेण शङ्खम् । चक्रं गदाभूषित भूषणाढ्यं श्रीपादराजं शरणं प्रपद्ये ॥ ३ ॥ भूलोकसारं भुवनैकनाथं नाथादिनाथं नरलोकनाथम् । कृष्णावतारं करुणाकटाक्षं श्रीपादराजं शरणं प्रपद्ये ॥…

श्री दत्तात्रेय द्वादशनाम स्तोत्रम्

|| श्री दत्तात्रेय द्वादशनाम स्तोत्रम् || अस्य श्रीदत्तात्रेय द्वादशनाम स्तोत्रमन्त्रस्य परमहंस ऋषिः श्रीदत्तात्रेय परमात्मा देवता अनुष्टुप्छन्दः सकलकामनासिद्ध्यर्थे जपे विनियोगः । प्रथमस्तु महायोगी द्वितीयः प्रभुरीश्वरः । तृतीयश्च त्रिमूर्तिश्च चतुर्थो ज्ञानसागरः ॥ १ ॥ पञ्चमो ज्ञानविज्ञानं षष्ठस्यात् सर्वमङ्गलम् । सप्तमो पुण्डरीकाक्षो अष्टमो देववल्लभः ॥ २ ॥ नवमो नन्ददेवेशो दशमो नन्ददायकः । एकादशो महारुद्रो द्वादशो करुणाकरः ॥ ३…

श्री दत्ताष्टकम् २

|| श्री दत्ताष्टकम् २ || आदौ ब्रह्ममुनीश्वरं हरिहरं सत्त्वं रजस्तामसं ब्रह्माण्डं च त्रिलोकपावनकरं त्रैमूर्तिरक्षाकरम् । भक्तानामभयार्थरूपसहितं सोऽहं स्वयं भावयन् सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ १ ॥ विश्वं विष्णुमयं स्वयं शिवमयं ब्रह्मा मुनीन्द्रामयं ब्रह्मेन्द्रादिसुरोगणार्चितमयं सत्यं समुद्रामयम् । सप्तं लोकमयं स्वयं जनमयं मध्यादिवृक्षामयं सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ २ ॥ आदित्यादिग्रहा स्वधा ऋषिगणं…

श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् २

|| श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् २ || ओंकारतत्त्वरूपाय दिव्यज्ञानात्मने नमः । नभोऽतीतमहाधाम्ने ऐन्द्र्यर्ध्या ओजसे नमः ॥ १ ॥ नष्टमत्सरगम्यायाऽऽगम्याचारात्मवर्त्मने । मोचितामेध्यकृतये ह्रीम्बीजश्राणितश्रितः ॥ २ ॥ मोहादिविभ्रमान्ताय बहुकायधराय च । भक्तदुर्वैभवच्छेत्रे क्लीम्बीजवरजापिने ॥ ३ ॥ भवहेतुविनाशाय राजच्छोणाधराय च । गतिप्रकम्पिताण्डाय चारुव्यायतबाहवे ॥ ४ ॥ गतगर्वप्रियायास्तु यमादियतचेतसे । वशिताजातवश्याय मुण्डिने अनसूयवे ॥ ५ ॥ वदद्वरेण्यवाग्जालाविस्पष्टविविधात्मने । तपोधनप्रसन्नायेडापतिस्तुतकीर्तये ॥…

श्री दत्त नक्षत्रमालिका स्तोत्रम्

|| श्री दत्त नक्षत्रमालिका स्तोत्रम् || गोदावर्या महानद्या उत्तरे सिंहपर्वते । सुपुण्ये माहुरपुरे सर्वतीर्थसमन्विते ॥ १ ॥ जज्ञेऽत्रेरनसूयायां प्रदोषे बुधवासरे । मार्गशीर्ष्यां महायोगी दत्तात्रेयो दिगम्बरः ॥ २ ॥ मालां कुण्डीं च डमरुं शूलं शङ्खं सुदर्शनम् । दधानः षड्भुजैस्त्र्यात्मा योगमार्गप्रवर्तकः ॥ ३ ॥ भस्मोद्धूलितसर्वाङ्गो जटाजूटविराजितः । रुद्राक्षभूषिततनुः शाम्भवीमुद्रया युतः ॥ ४ ॥ भक्तानुग्रहकृन्नित्यं पापतापार्तिभञ्जनः । बालोन्मत्तपिशाचाभः…

श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २

|| श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २ || कदाचिच्छङ्कराचार्यश्चिन्तयित्वा दिवाकरम् । किं साधितं मया लोके पूजया स्तुतिवन्दनैः ॥ १ ॥ बहुकाले गते तस्य दत्तात्रेयात्मको मुनिः । स्वप्ने प्रदर्शयामास सूर्यरूपमनुत्तमम् ॥ २ ॥ उवाच शङ्करं तत्र पतद्रूपमधारयत् । प्राप्यसे त्वं सर्वसिद्धिकारणं स्तोत्रमुत्तमम् ॥ ३ ॥ उपदेक्ष्ये दत्तनामसहस्रं देवपूजितम् । दातुं वक्तुमशक्यं च रहस्यं मोक्षदायकम् ॥ ४ ॥…

श्री दत्तात्रेय प्रार्थना स्तोत्रम्

|| श्री दत्तात्रेय प्रार्थना स्तोत्रम् || समस्तदोषशोषणं स्वभक्तचित्ततोषणं निजाश्रितप्रपोषणं यतीश्वराग्र्यभूषणम् । त्रयीशिरोविभूषणं प्रदर्शितार्थदूषणं भजेऽत्रिजं गतैषणं विभुं विभूतिभूषणम् ॥ १ ॥ समस्तलोककारणं समस्तजीवधारणं समस्तदुष्टमारणं कुबुद्धिशक्तिजारणम् । भजद्भयाद्रिदारणं भजत्कुकर्मवारणं हरिं स्वभक्ततारणं नमामि साधुचारणम् ॥ २ ॥ नमाम्यहं मुदास्पदं निवारिताखिलापदं समस्तदुःखतापदं मुनीन्द्रवन्द्य ते पदम् । यदञ्चितान्तरा मदं विहाय नित्यसम्मदं प्रयान्ति नैव ते भिदं मुहुर्भजन्ति चाविदम् ॥ ३ ॥…

श्री दत्त अपराध क्षमापण स्तोत्रम्

|| श्री दत्त अपराध क्षमापण स्तोत्रम् || दत्तात्रेयं त्वां नमामि प्रसीद त्वं सर्वात्मा सर्वकर्ता न वेद । कोऽप्यन्तं ते सर्वदेवाधिदेव ज्ञाताज्ञातान्मेऽपराधान् क्षमस्व ॥ १ ॥ त्वदुद्भवत्वात्त्वदधीनधीत्वा- -त्त्वमेव मे वन्द्य उपास्य आत्मन् । अथापि मौढ्यात् स्मरणं न ते मे कृतं क्षमस्व प्रियकृन्महात्मन् ॥ २ ॥ भोगापवर्गप्रदमार्तबन्धुं कारुण्यसिन्धुं परिहाय बन्धुम् । हिताय चान्यं परिमार्गयन्ति हा मादृशो नष्टदृशो…

श्री दत्त वेदपाद स्तुतिः

|| श्री दत्त वेदपाद स्तुतिः || अग्निमीले परं देवं यज्ञस्य त्वां त्र्यधीश्वरम् । स्तोमोऽयमग्रियोऽर्थ्यस्ते हृदिस्पृगस्तु शन्तमः ॥ १ ॥ अयं देवाय दूराय गिरां स्वाध्याय सात्वताम् । स्तोमोऽस्त्वनेन विन्देयं तद्विष्णोः परमं पदम् ॥ २ ॥ एता या लौकिकाः सन्तु हीना वाचोऽपि नः प्रियाः । बालस्येव पितुष्टे त्वं स नो मृल महाँ असि ॥ ३ ॥ अयं…

श्री दत्तात्रेय स्तोत्रम् (भृगु कृतम्)

|| श्री दत्तात्रेय स्तोत्रम् (भृगु कृतम्) || बालार्कप्रभमिन्द्रनीलजटिलं भस्माङ्गरागोज्ज्वलं शान्तं नादविलीनचित्तपवनं शार्दूलचर्माम्बरम् । ब्रह्मज्ञैः सनकादिभिः परिवृतं सिद्धैः समाराधितं आत्रेयं समुपास्महे हृदि मुदा ध्येयं सदा योगिभिः ॥ १ ॥ दिगम्बरं भस्मविलेपिताङ्गं चक्रं त्रिशूलं डमरुं गदां च । पद्मासनस्थं शशिसूर्यनेत्रं दत्तात्रेयं ध्येयमभीष्टसिद्ध्यै ॥ २ ॥ ओं नमः श्रीगुरुं दत्तं दत्तदेवं जगद्गुरुम् । निष्कलं निर्गुणं वन्दे दत्तात्रेयं नमाम्यहम्…

श्री दत्तात्रेय अष्टोत्तरशतनामावली ३

|| श्री दत्तात्रेय अष्टोत्तरशतनामावली ३ || ओं श्रीदत्ताय नमः । ओं देवदत्ताय नमः । ओं ब्रह्मदत्ताय नमः । ओं विष्णुदत्ताय नमः । ओं शिवदत्ताय नमः । ओं अत्रिदत्ताय नमः । ओं आत्रेयाय नमः । ओं अत्रिवरदाय नमः । ओं अनसूयने नमः । ९ ओं अनसूयासूनवे नमः । ओं अवधूताय नमः । ओं धर्माय नमः ।…

श्री अनघदेवाष्टोत्तरशतनामावली

|| श्री अनघदेवाष्टोत्तरशतनामावली || ओं दत्तात्रेयाय नमः । ओं अनघाय नमः । ओं त्रिविधाघविदारिणे नमः । ओं लक्ष्मीरूपानघेशाय नमः । ओं योगाधीशाय नमः । ओं द्राम्बीजध्यानगम्याय नमः । ओं विज्ञेयाय नमः । ओं गर्भादितारणाय नमः । ओं दत्तात्रेयाय नमः । ९ ओं बीजस्थवटतुल्याय नमः । ओं एकार्णमनुगामिने नमः । ओं षडर्णमनुपालाय नमः । ओं योगसम्पत्कराय…

श्री अनघादेवि अष्टोत्तरशतनामावली

|| श्री अनघादेवि अष्टोत्तरशतनामावली || ओं अनघायै नमः । ओं महादेव्यै नमः । ओं महालक्ष्म्यै नमः । ओं अनघस्वामिपत्न्यै नमः । ओं योगेशायै नमः । ओं त्रिविधाघविदारिण्यै नमः । ओं त्रिगुणायै नमः । ओं अष्टपुत्रकुटुम्बिन्यै नमः । ओं सिद्धसेव्यपदे नमः । ९ ओं आत्रेयगृहदीपायै नमः । ओं विनीतायै नमः । ओं अनसूयाप्रीतिदायै नमः । ओं…

श्री कामेश्वरी स्तुतिः

|| श्री कामेश्वरी स्तुतिः || युधिष्ठिर उवाच । नमस्ते परमेशानि ब्रह्मरूपे सनातनि । सुरासुरजगद्वन्द्ये कामेश्वरि नमोऽस्तु ते ॥ १ ॥ न ते प्रभावं जानन्ति ब्रह्माद्यास्त्रिदशेश्वराः । प्रसीद जगतामाद्ये कामेश्वरि नमोऽस्तु ते ॥ २ ॥ अनादिपरमा विद्या देहिनां देहधारिणी । त्वमेवासि जगद्वन्द्ये कामेश्वरि नमोऽस्तु ते ॥ ३ ॥ त्वं बीजं सर्वभूतानां त्वं बुद्धिश्चेतना धृतिः । त्वं…

श्री महावाराही श्रीपादुकार्चना नामावली

|| श्री महावाराही श्रीपादुकार्चना नामावली || मूलं – ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौं ऐम् । (मूलं) वाराही श्री पादुकां पूजयामि तर्पयामि नमः । (मूलं) भद्राणी श्री पादुकां पूजयामि तर्पयामि नमः । (मूलं) भद्रा श्री पादुकां पूजयामि तर्पयामि नमः । (मूलं) वार्ताली श्री पादुकां पूजयामि तर्पयामि नमः । (मूलं) कोलवक्त्रा श्री पादुकां…

श्री सरस्वती अष्टोत्तरशतनाम स्तोत्रम्

|| श्री सरस्वती अष्टोत्तरशतनाम स्तोत्रम् || सरस्वती महाभद्रा महामाया वरप्रदा । श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रगा ॥ १ ॥ शिवानुजा पुस्तकभृत् ज्ञानमुद्रा रमा परा । कामरूपा महाविद्या महापातकनाशिनी ॥ २ ॥ महाश्रया मालिनी च महाभोगा महाभुजा । महाभागा महोत्साहा दिव्याङ्गा सुरवन्दिता ॥ ३ ॥ महाकाली महापाशा महाकारा महाङ्कुशा । पीता च विमला विश्वा विद्युन्माला च वैष्णवी…

श्री सरस्वती स्तोत्रम् (अगस्त्य कृतम्)

|| श्री सरस्वती स्तोत्रम् (अगस्त्य कृतम्) || या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैस्सदा पूजिता सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ १ ॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ २ ॥ सुरासुरैस्सेवितपादपङ्कजा करे…

श्री सरस्वती स्तोत्रम् २

|| श्री सरस्वती स्तोत्रम् २ || ओं अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य । ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीसरस्वती देवता । धर्मार्थकाममोक्षार्थे जपे विनियोगः । आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या । सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना ॥ १ ॥ श्वेतपद्मासना देवी श्वेतगन्धानुलेपना । अर्चिता…

श्री सरस्वती द्वादशनाम स्तोत्रम्

|| श्री सरस्वती द्वादशनाम स्तोत्रम् || सरस्वती त्वयं दृष्ट्या वीणापुस्तकधारिणी । हंसवाह समायुक्ता विद्यादानकरी मम ॥ १ ॥ प्रथमं भारती नामा द्वितीयं च सरस्वती । तृतीयं शारदादेवी चतुर्थं हंसवाहना ॥ २ ॥ पञ्चमं जगतीख्यातं षष्ठं वागीश्वरी तथा । कौमारी सप्तमं प्रोक्तमष्टमं ब्रह्मचारिणी ॥ ३ ॥ नवमं बुद्धिधात्री च दशमं वरदायिनी । एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी…

श्री सरस्वती स्तोत्रम् (याज्ञ्यवल्क्य कृतम्)

|| श्री सरस्वती स्तोत्रम् (याज्ञ्यवल्क्य कृतम्) || नारायण उवाच । वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् । महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ १ ॥ गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह । तदा जगाम दुःखार्तो रविस्थानं च पुण्यदम् ॥ २ ॥ सम्प्राप्यतपसा सूर्यं कोणार्के दृष्टिगोचरे । तुष्टाव सूर्यं शोकेन रुरोद च पुनः पुनः ॥ ३ ॥ सूर्यस्तं पाठयामास…

श्री सरस्वती कवचम्

|| श्री सरस्वती कवचम् || ब्रह्मन्ब्रह्मविदाम्श्रेष्ठ ब्रह्मज्ञानविशारद । सर्वज्ञ सर्वजनक सर्वपूजकपूजित ॥ ६० सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो । अयातयाममन्त्राणां समूहो यत्र सम्युतः ॥ ६१ ॥ ब्रह्मोवाच । शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् । श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ ६२ ॥ उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने । रासेश्वरेण विभुना रासे वै रासमण्डले ॥ ६३…

श्री सरस्वती सहस्रनाम स्तोत्रम्

|| श्री सरस्वती सहस्रनाम स्तोत्रम् || ध्यानम् । श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका- मालालालित कुन्तला प्रविलसन्मुक्तावलीशोभना । सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा ॥ श्री नारद उवाच – भगवन्परमेशान सर्वलोकैकनायक । कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः ॥ २ ॥ कथं देव्या महावाण्यास्सतत्प्राप सुदुर्लभम् । एतन्मे वद तत्त्वेन महायोगीश्वर प्रभो ॥ ३ ॥ श्री सनत्कुमार उवाच –…

श्री कमलजदयिताष्टकम्

|| श्री कमलजदयिताष्टकम् || शृङ्गक्ष्माभृन्निवासे शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने वाक्सवित्रि । शम्भुश्रीनाथमुख्यामरवरनिकरैर्मोदतः पूज्यमाने विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ १ ॥ कल्यादौ पार्वतीशः प्रवरसुरगणप्रार्थितः श्रौतवर्त्म प्राबल्यं नेतुकामो यतिवरवपुषागत्य यां शृङ्गशैले । संस्थाप्यार्चां प्रचक्रे बहुविधनुतिभिः सा त्वमिन्द्वर्धचूडा विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ २ ॥ पापौघं ध्वंसयित्वा बहुजनिरचितं किं च पुण्यालिमारा-…

श्री सरस्वती कवचम् (पाठान्तरम्)

|| श्री सरस्वती कवचम् (पाठान्तरम्) || श्रीं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः । श्रीं वाग्देवतायै स्वाहा फालं मे सर्वदाऽवतु ॥ १ ॥ ओं ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् । ओं श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदाऽवतु ॥ २ ॥ ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदाऽवतु । ओं ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा…

श्री सूर्याष्टोत्तरशतनामावली २

|| श्री सूर्याष्टोत्तरशतनामावली २ || ओं सूर्याय नमः । ओं अर्यम्णे नमः । ओं भगाय नमः । ओं त्वष्ट्रे नमः । ओं पूष्णे नमः । ओं अर्काय नमः । ओं सवित्रे नमः । ओं रवये नमः । ओं गभस्तिमते नमः । ९ ओं अजाय नमः । ओं कालाय नमः । ओं मृत्यवे नमः । ओं…

श्री भास्कर सप्तकम् (सप्तसप्तिसप्तकम्)

|| श्री भास्कर सप्तकम् (सप्तसप्तिसप्तकम्) || ध्वान्तदन्तिकेसरी हिरण्यकान्तिभासुरः कोटिरश्मिभूषितस्तमोहरोऽमितद्युतिः । वासरेश्वरो दिवाकरः प्रभाकरः खगो भास्करः सदैव पातु मां विभावसू रविः ॥ १ ॥ यक्षसिद्धकिन्नरादिदेवयोनिसेवितं तापसैरृषीश्वरैश्च नित्यमेव वन्दितम् । तप्तकाञ्चनाभमर्कमादिदैवतं रविं विश्वचक्षुषं नमामि सादरं महाद्युतिम् ॥ २ ॥ भानुना वसुन्धरा पुरैव निर्मिता तथा भास्करेण तेजसा सदैव पालिता मही । भूर्विलीनतां प्रयाति काश्यपेयवर्चसा तं रवि भजाम्यहं सदैव…

श्री भास्कराष्टकम्

|| श्री भास्कराष्टकम् || श्रीपद्मिनीशमरुणोज्ज्वलकान्तिमन्तं मौनीन्द्रवृन्दसुरवन्दितपादपद्मम् । नीरेजसम्भवमुकुन्दशिवस्वरूपं श्रीभास्करं भुवनबान्धवमाश्रयामि ॥ १ ॥ मार्ताण्डमीशमखिलात्मकमंशुमन्त- -मानन्दरूपमणिमादिकसिद्धिदं च । आद्यन्तमध्यरहितं च शिवप्रदं त्वां श्रीभास्करं नतजनाश्रयमाश्रयामि ॥ २ ॥ सप्ताश्वमभ्रमणिमाश्रितपारिजातं जाम्बूनदाभमतिनिर्मलदृष्टिदं च । दिव्याम्बराभरणभूषितचारुमूर्तिं श्रीभास्करं ग्रहगणाधिपमाश्रयामि ॥ ३ ॥ पापार्तिरोगभयदुःखहरं शरण्यं संसारगाढतमसागरतारकं च । हंसात्मकं निगमवेद्यमहस्करं त्वां श्रीभास्करं कमलबान्धवमाश्रयामि ॥ ४ ॥ प्रत्यक्षदैवमचलात्मकमच्युतं च भक्तप्रियं सकलसाक्षिणमप्रमेयम् । सर्वात्मकं…

श्री सूर्य स्तुतिः (ब्रह्म कृतम्)

|| श्री सूर्य स्तुतिः (ब्रह्म कृतम्) || ब्रह्मोवाच । आदिदेवोऽसि देवानामैश्वर्याच्च त्वमीश्वरः । आदिकर्ताऽसि भूतानां देवदेवो दिवाकरः ॥ १ ॥ जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् । मुनिकिन्नरसिद्धानां तथैवोरगपक्षिणाम् ॥ २ ॥ त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः । वायुरिन्द्रश्च सोमश्च विवस्वान् वरुणस्तथा ॥ ३ ॥ त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः । सरितः सागराः शैला…

श्री सूर्य स्तुतिः (मनु कृतम्)

|| श्री सूर्य स्तुतिः (मनु कृतम्) || मनुरुवाच । नमो नमो वरेण्याय वरदायाऽम्शुमालिने । ज्योतिर्मय नमस्तुभ्यमनन्तायाजिताय ते ॥ १ ॥ त्रिलोकचक्षुषे तुभ्यं त्रिगुणायामृताय च । नमो धर्माय हंसाय जगज्जननहेतवे ॥ २ ॥ नरनारीशररीराय नमो मीढुष्टमाय ते । प्रज्ञानायाखिलेशाय सप्ताश्वाय त्रिमूर्तये ॥ ३ ॥ नमो व्याहृतिरूपाय त्रिलक्षायाऽऽशुगामिने । हर्यश्वाय नमस्तुभ्यं नमो हरितवाहवे ॥ ४ ॥ एकलक्षविलक्षाय…

श्री सूर्य स्तवराज स्तोत्रम्

|| श्री सूर्य स्तवराज स्तोत्रम् || ब्रह्मोवाच । स्तवनं सामवेदोक्तं सूर्यस्य व्याधिमोचनम् । सर्वपापहरं सारं धनारोग्यकरं परम् ॥ १ ॥ तं ब्रह्म परमं धाम ज्योतीरूपं सनातनम् । त्वामहं स्तोतुमिच्छामि भक्तानुग्रहकारकम् ॥ २ ॥ त्रैलोक्यलोचनं लोकनाथं पापविमोचनम् । तपसां फलदातारं दुःखदं पापिनां सदा ॥ ३ ॥ कर्मानुरूपफलदं कर्मबीजं दयानिधिम् । कर्मरूपं क्रियारूपमरूपं कर्मबीजकम् ॥ ४ ॥…

श्री मार्ताण्ड स्तोत्रम्

|| श्री मार्ताण्ड स्तोत्रम् || गाढान्धकारहरणाय जगद्धिताय ज्योतिर्मयाय परमेश्वरलोचनाय । मन्देहदैत्यभुजगर्वविभञ्जनाय सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ १ ॥ छायाप्रियाय मणिकुण्डलमण्डिताय सुरोत्तमाय सरसीरुहबान्धवाय । सौवर्णरत्नमकुटाय विकर्तनाय सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ २ ॥ सञ्ज्ञावधूहृदयपङ्कजषट्पदाय गौरीशपङ्कजभवाच्युतविग्रहाय । लोकेक्षणाय तपनाय दिवाकराय सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ ३ ॥ सप्ताश्वबद्धशकटाय ग्रहाधिपाय रक्ताम्बराय शरणागतवत्सलाय । जाम्बूनदाम्बुजकराय दिनेश्वराय सूर्याय तीव्रकिरणाय नमो…

श्री रवि स्तोत्रम् (साम्बपुराणे)

|| श्री रवि स्तोत्रम् (साम्बपुराणे) || त्वं देव ऋषिकर्ता च प्रकृतिः पुरुषः प्रभुः । छाया सञ्ज्ञा प्रतिष्ठापि निरालम्बो निराश्रयः ॥ १ ॥ आश्रयः सर्वभूतानां नमस्तेऽस्तु सदा मम । त्वं देव सर्वतश्चक्षुः सर्वतः सर्वदा गतिः ॥ २ ॥ सर्वदः सर्वदा सर्वः सर्वसेव्यस्त्वमार्तिहा । त्वं देव ध्यानिनां ध्यानम् योगिनां योग उत्तमः ॥ ३ ॥ त्वं भाषाफलदः सर्वः…

श्री सूर्य कवचम् – २ (त्रैलोक्यमङ्गलम्)

|| श्री सूर्य कवचम् – २ (त्रैलोक्यमङ्गलम्) || श्रीसूर्य उवाच । साम्ब साम्ब महाबाहो शृणु मे कवचं शुभम् । त्रैलोक्यमङ्गलं नाम कवचं परमाद्भुतम् ॥ १ ॥ यज्ज्ञात्वा मन्त्रवित् सम्यक् फलं प्राप्नोति निश्चितम् । यद्धृत्वा च महादेवो गणानामधिपोऽभवत् ॥ २ ॥ पठनाद्धारणाद्विष्णुः सर्वेषां पालकः सदा । एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥ ३ ॥ कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहृतः ।…

श्री सूर्य कवचम् – ३ (जगद्विलक्षणम्)

|| श्री सूर्य कवचम् – ३ (जगद्विलक्षणम्) || बृहस्पतिरुवाच । इन्द्र शृणु प्रवक्ष्यामि कवचं परमाद्भुतम् । यद्धृत्वा मुनयः पूता जीवन्मुक्ताश्च भारते ॥ १ ॥ कवचं बिभ्रतो व्याधिर्न भियाऽऽयाति सन्निधिम् । यथा दृष्ट्वा वैनतेयं पलायन्ते भुजङ्गमाः ॥ २ ॥ शुद्धाय गुरुभक्ताय स्वशिष्याय प्रकाशयेत् । खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥ ३ ॥ जगद्विलक्षणस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च…

श्री आदित्य स्तोत्रम् – २ (भविष्यपुराणे)

श्री आदित्य स्तोत्रम् – २ (भविष्यपुराणे) नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् । पीडा च दुस्सहा राजन् जायते सततं नृणाम् ॥ १ ॥ पीडानाशाय राजेन्द्र नामानि शृणु भास्वतः । सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः ॥ २ ॥ आदित्यः सविता सूर्यः पूषार्कः शीघ्रगो रविः । भगस्त्वष्टाऽर्यमा हंसो हेलिस्तेजोनिधिर्हरिः ॥ ३ ॥ दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः ।…

सूर्य स्तोत्रम् – २ (देव कृतम्)

|| सूर्य स्तोत्रम् – २ (देव कृतम्) || देवा ऊचुः । नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः । यजुः स्वरूपरूपाय साम्नां धामवते नमः ॥ १ ॥ ज्ञानैकधामभूताय निर्धूततमसे नमः । शुद्धज्योतिः स्वरूपाय विशुद्धायामलात्मने ॥ २ ॥ चक्रिणे शङ्खिने धाम्ने शार्ङ्गिणे पद्मिने नमः । वरिष्ठाय वरेण्याय परस्मै परमात्मने ॥ ३ ॥ नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये । सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम् ॥…

श्री रवि स्तुतिः (त्रिदेव कृतम्)

|| श्री रवि स्तुतिः (त्रिदेव कृतम्) || दृष्ट्वैवं देवदेवस्य रूपं भानोर्महात्मनः । विस्मयोत्फुल्लनयनास्तुष्टवुस्ते दिवाकरम् ॥ १ ॥ कृताञ्जलिपुटो भूत्वा ब्रह्मा स्तोतुं प्रचक्रमे । प्रणम्य शिरसा भानुमिदं वचनमब्रवीत् ॥ २ ॥ ब्रह्मोवाच । नमस्ते देवदेवेश सहस्रकिरणोज्ज्वल । लोकदीप नमस्तेऽस्तु नमस्ते कोणवल्लभ ॥ ३ ॥ भास्कराय नमो नित्यं खषोल्काय नमो नमः । विष्णवे कालचक्राय सोमायामिततेजसे ॥ ४…

श्री सूर्याष्टोत्तरशतनाम स्तोत्रम् २

|| श्री सूर्याष्टोत्तरशतनाम स्तोत्रम् २ || सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ १ ॥ पृथिव्यापश्च तेजश्च खं वायुश्च परायणः । सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ २ ॥ इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः । ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ३ ॥ वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । धर्मध्वजो…

श्री सूर्यार्या स्तोत्रम् (याज्ञवल्क्य कृतम्)

|| श्री सूर्यार्या स्तोत्रम् (याज्ञवल्क्य कृतम्) || शुकतुण्डच्छविसवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः । मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ १ ॥ यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽपि । कुरुतेञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥ २ ॥ उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय । अम्बरचूडामणये दिग्वनिताकर्णपूराय ॥ ३ ॥ जयति जनानन्दकरः करनिकरनिरस्ततिमिरसङ्घातः । लोकालोकालोकः कमलारुणमण्डलः सूर्यः ॥ ४ ॥ प्रतिबोधितकमलवनः कृतघटनश्चक्रवाकमिथुनानाम् । दर्शितसमस्तभुवनः परहितनिरतो रविः…

श्री सूर्य नामवर्णन स्तोत्रम् (भविष्यपुराणे)

|| श्री सूर्य नामवर्णन स्तोत्रम् (भविष्यपुराणे) || ब्रह्मोवाच । नामभिः संस्तुतो देवो यैरर्कः परितुष्यति । तानि ते कीर्तयाम्येष यथावदनुपूर्वशः ॥ १ ॥ नमः सूर्याय नित्याय रवये कार्यभानवे । भास्कराय मतङ्गाय मार्तण्डाय विवस्वते ॥ २ ॥ आदित्यायादिदेवाय नमस्ते रश्मिमालिने । दिवाकराय दीप्ताय अग्नये मिहिराय च ॥ ३ ॥ प्रभाकराय मित्राय नमस्तेऽदितिसम्भव । नमो गोपतये नित्यं दिशां…

श्री सूर्य प्रातः स्मरण स्तोत्रम्

|| श्री सूर्य प्रातः स्मरण स्तोत्रम् || प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि । सामानि यस्य किरणाः प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥ १ ॥ प्रातर्नमामि तरणिं तनुवाङ्मनोभि- -र्ब्रह्मेन्द्रपूर्वकसुरैर्नतमर्चितं च । वृष्टिप्रमोचनविनिग्रहहेतुभूतं त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥ २ ॥ प्रातर्भजामि सवितारमनन्तशक्तिं पापौघशत्रुभयरोगहरं परं च । तं सर्वलोककलनात्मककालमूर्तिं गोकण्ठबन्धनविमोचनमादिदेवम् ॥ ३ ॥ श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेत्तु यः…

श्री दुर्गा स्तोत्रम् (परशुराम कृतम्)

|| श्री दुर्गा स्तोत्रम् (परशुराम कृतम्) || परशुराम उवाच । श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च । आविर्भूता विग्रहतः पुरा सृष्ट्युन्मुखस्य च ॥ १ ॥ सूर्यकोटिप्रभायुक्ता वस्त्रालङ्कारभूषिता । वह्निशुद्धांशुकाधाना सस्मिता सुमनोहरा ॥ २ ॥ नवयौवनसम्पन्ना सिन्दूरारुण्यशोभिता । ललितं कबरीभारं मालतीमाल्यमण्डितम् ॥ ३ ॥ अहोऽनिर्वचनीया त्वं चारुमूर्तिं च बिभ्रती । मोक्षप्रदा मुमुक्षूणां महाविष्णुर्विधिः स्वयम् ॥ ४ ॥…

श्री चण्डिका दल स्तुतिः

|| श्री चण्डिका दल स्तुतिः || ओं नमो भगवति जय जय चामुण्डिके, चण्डेश्वरि, चण्डायुधे, चण्डरूपे, ताण्डवप्रिये, कुण्डलीभूतदिङ्नागमण्डित गण्डस्थले, समस्त जगदण्ड संहारकारिणि, परे, अनन्तानन्दरूपे, शिवे, नरशिरोमालालङ्कृतवक्षःस्थले, महाकपाल मालोज्ज्वल मणिमकुट चूडाबद्ध चन्द्रखण्डे, महाभीषणि, देवि, परमेश्वरि, ग्रहायुः किल महामाये, षोडशकलापरिवृतोल्लासिते, महादेवासुर समरनिहतरुधिरार्द्रीकृत लम्भित तनुकमलोद्भासिताकार सम्पूर्ण रुधिरशोभित महाकपाल चन्द्रांसि निहिता बद्ध्यमान रोमराजी सहित मोहकाञ्ची दामोज्ज्वलीकृत नव सारुणी कृत नूपुरप्रज्वलित…

श्री पद्मावती स्तोत्रम्

|| श्री पद्मावती स्तोत्रम् || विष्णुपत्नि जगन्मातः विष्णुवक्षःस्थलस्थिते । पद्मासने पद्महस्ते पद्मावति नमोऽस्तु ते ॥ १ ॥ वेङ्कटेशप्रिये पूज्ये क्षीराब्धितनये शुभे । पद्मे रमे लोकमातः पद्मावति नमोऽस्तु ते ॥ २ ॥ कल्याणी कमले कान्ते कल्याणपुरनायिके । कारुण्यकल्पलतिके पद्मावति नमोऽस्तु ते ॥ ३ ॥ सहस्रदलपद्मस्थे कोटिचन्द्रनिभानने । पद्मपत्रविशालाक्षि पद्मावति नमोऽस्तु ते ॥ ४ ॥ सर्वज्ञे सर्ववरदे…

अष्टलक्ष्मी अष्टोत्तरशतनामावली

|| अष्टलक्ष्मी अष्टोत्तरशतनामावली || ओं श्रीमात्रे नमः । ओं श्रीमहाराज्ञै नमः । ओं श्रीमत्सिंहासनेश्वर्यै नमः । ओं श्रीमन्नारायणप्रीतायै नमः । ओं स्निग्धायै नमः । ओं श्रीमत्यै नमः । ओं श्रीपतिप्रियायै नमः । ओं क्षीरसागरसम्भूतायै नमः । ओं नारायणहृदयालयायै नमः । ९ ओं ऐरावणादिसम्पूज्यायै नमः । ओं दिग्गजावां सहोदर्यै नमः । ओं उच्छैश्रवः सहोद्भूतायै नमः ।…

श्री सिद्धलक्ष्मी स्तोत्रम् (पाठान्तरम्)

|| श्री सिद्धलक्ष्मी स्तोत्रम् (पाठान्तरम्) || ध्यानम् । ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखीम् । त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम् ॥ पीताम्बरधरां देवीं नानाऽलङ्कारभूषिताम् । तेजःपुञ्जधरीं श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ स्तोत्रम् । ओङ्कारं लक्ष्मीरूपं तु विष्णुं वाग्भवमव्ययम् । विष्णुमानन्दमव्यक्तं ह्रीङ्कारबीजरूपिणीम् ॥ क्लीं अमृता नन्दिनीं भद्रां सत्यानन्ददायिनीम् । श्रीं दैत्यशमनीं शक्तीं मालिनीं शत्रुमर्दिनीम् ॥ तेजःप्रकाशिनीं देवी वरदां शुभकारिणीम् ।…

श्री पद्मावती नवरत्नमालिका स्तुतिः

|| श्री पद्मावती नवरत्नमालिका स्तुतिः || श्रीमान् यस्याः प्रियस्सन् सकलमपि जगज्जङ्गमस्थावराद्यं स्वर्भूपातालभेदं विविधविधमहाशिल्पसामर्थ्यसिद्धम् । रञ्जन् ब्रह्मामरेन्द्रैस्त्रिभुवनजनकः स्तूयते भूरिशो यः सा विष्णोरेकपत्नी त्रिभुवनजननी पातु पद्मावती नः ॥ १ ॥ श्रीशृङ्गारैकदेवीं विधिमुखसुमनःकोटिकोटीरजाग्र- -द्रत्नज्योत्स्नाप्रसारप्रकटितचरणाम्भोजनीराजितार्चाम् । गीर्वाणस्त्रैणवाणीपरिफणितमहाकीर्तिसौभाग्यभाग्यां हेलानिर्दग्धदैन्यश्रमविषममहारण्यगण्यां नमामि ॥ २ ॥ विद्युत्कोटिप्रकाशां विविधमणिगणोन्निद्रसुस्निग्धशोभा- सम्पत्सम्पूर्णहाराद्यभिनवविभवालङ्क्रियोल्लासिकण्ठाम् । आद्यां विद्योतमानस्मितरुचिरचितानल्पचन्द्रप्रकाशां पद्मां पद्मायताक्षीं पदनलिननमत्पद्मसद्मां नमामि ॥ ३ ॥ शश्वत्तस्याः श्रयेऽहं चरणसरसिजं शार्ङ्गपाणेः…

कनकधारा स्तोत्रम् (पाठान्तरम्)

|| कनकधारा स्तोत्रम् (पाठान्तरम्) || अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २ ॥ आमीलिताक्षमधिगम्य मुदा मुकुन्दम्- आनन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ३ ॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव…

Join WhatsApp Channel Download App