श्रीब्रह्मण्यतीर्थपञ्चरत्नमालिकास्तोत्रम्

|| श्रीब्रह्मण्यतीर्थपञ्चरत्नमालिकास्तोत्रम् || वन्दे ब्रह्मण्यतीर्थं शुभतमचरितं सेवितश्रीसमेतम् शान्तं दान्तं महान्तं गुरुगुणभरितं योगिसङ्घैरुपेतम् । कामक्रोधाद्यतीतं कुमतिभिरजितं कल्मषाम्भोधिपोतम् धीरं भूदेवगीतं शुभजनमहितं धन्यमानं विनीतम् ॥ १॥ माद्यन्मायिगजेन्द्रपञ्चवदनः प्रख्यातकीर्तिर्महान् श्रीमद्विट्ठलपादपद्ममधुपः सर्वेष्टचिन्तामणिः । निर्व्याजोरुदयाकटाक्षलसितो ज्ञानादिभाग्योज्वलः श्रीब्रह्मण्ययतीन्द्र मस्तकमणिः पायादपायात्स माम् ॥ २॥ भिभ्रत्काषायचेलं विलसिततुलसीपङ्कजाक्षादिमालम् धूताज्ञानाघजालं मृदुवचनकलं चारुसौन्दर्यशीलम् । आर्तत्राणैकलोलं प्रणतमुनिकुलं वैष्णवाग्र्यानुकूलम् ब्रह्मण्यार्यं दयालुं स्मितमुखकमलं तं भजेलम् ॥ ३॥ यद्वृन्दावनदर्शनेन नितरां पापानि…

प्रार्थनादशकस्तोत्रम्

|| प्रार्थनादशकस्तोत्रम् || रमारमण मध्वादिदेशिक श्रीहृदब्जग । हयग्रीव कृपालो मे प्रार्थनां श्रुणु सादरम् ॥ १॥ अयोग्यविषये स्वामिन् सर्वथा न मनो भवेत् । चाञ्चल्यं मूलतश्छिन्धि दुराशां हर दूरतः ॥ २॥ दुर्बुद्धिं च न मे देहि दुःशास्त्रावर्तने रतिम् । हापयस्व च दुर्मानं दुर्गुणं मोचय प्रभो ॥ ३॥ दुःसङ्गं दुष्क्रियां छिन्धि हर लोकाटनात्पदौ । न नियोजय चक्षूंषि परदारादिदर्शने…

श्री रंगनाथ अष्टकम्

|| श्री रंगनाथ अष्टकम् || आनंदरूपे निजबोधरूपे ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे। शशाङ्रूपे रमणीयरूपे श्रीरंगरूपे रमतां मनो मे ॥ कावेरीतिरे करुणाविलोले मंदारमूले धृतचारुकेले। दैत्यन्तकालेऽखिललोकलीले श्रीराङ्गलीले रमतां मनो मे ॥ लक्ष्मीनिवासे जगतां निवासे हृतपद्मवासे रविबिम्बवासे। कृपानिवासे गुणवृन्दवासे श्रीरंगवासे रमतां मनो मे ॥ ब्रह्मादिवन्द्ये जगदेकवन्द्ये मुकुन्दवन्द्ये सुरनाथवन्द्ये। व्यासादिवन्द्ये सनकादिवन्द्ये श्रीराङ्गवन्द्ये रमतां मनो मे ॥ ब्रह्माधिराजे गरुड़ाधिराजे वैकुंठराजे सुरराजराजे। त्रैलोक्यराजेऽखिललोकराजे श्रीरंगराजे…

श्रीप्रागजीभक्तमहिमाष्टकम्

|| श्रीप्रागजीभक्तमहिमाष्टकम् || (रथोद्धता छन्द) ज्ञानधर्म-सुविरक्ति-शालिनं श्रीहरौ रतिविशिष्ट-मानसम् । धर्मयुक्त-पुरुषाधिक-प्रियं प्राग्जितं गुरुमहं नमामि तम् ॥ १॥ ब्रह्मरूप-मखिलार्थदं विभुं योगयुक्त-मुरुपुण्य-सङ्गतम् । स्वप्रताप-निहताखिलासुरं प्राग्जितं गुरुमहं नमामि तम् ॥ २॥ दिव्यनिर्गुण-मनोरमाकृतिं नैककोटि-रविचन्द्र-भासुरम् । द्रष्टमात्र-नरनाटकं सदा प्राग्जितं गुरुमहं नमामि तम् ॥ ३॥ अक्षराधिपति-तुल्यतां गतं स्वान्तरे हि हरिमूर्तिदर्शितम् । सर्वजीव-हृदयस्थ-वेदनं प्राग्जितं गुरुमहं नमामि तम् ॥ ४॥ जन्ममृत्यु-भवबन्धमोक्षणं प्राज्यशिष्य-शुचिबोधकं मुदा ।…

प्रवचनपूर्वस्तुतिः

|| प्रवचनपूर्वस्तुतिः || (श्री निरञ्जनपीठाधीश्वर आचार्य महामण्डलेश्वर यतीन्द्र स्वामी श्रीकृष्णानन्द गिरिजी महाराज के प्रवचन के पूर्व की स्तुति) सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । महेशं सच्चिदानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रकृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ १॥ शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्फाटिकमालिकां…

श्रीप्रमुखस्वामिमहाराजमहिमाष्टकम्

|| श्रीप्रमुखस्वामिमहाराजमहिमाष्टकम् || (शार्दूलविक्रीडितम्) शोभन्ते शुभसाधुशीलसरला निर्वेदपूर्णाः क्षितौ शास्त्रिश्रीगुरुयोगिनोश्च परमा प्राप्ता भवद्भिः कृपा । धृत्वा धर्मधुरां समुद्रमनसो गम्भीरनम्रा विदा नारायणस्वरूपदासगुणिनः स्नेहेन वन्दे ह्यहो ॥ १॥ गण्यन्ते जलराशिबिन्दुनिचया आकाशतारागणा भूमेर्धूलिकणा भवद्गुणगणाः किं केशविष्ण्वादिभिः । व्यासो वेदपुराणनिर्मितपरोऽशक्तोऽभवत् त्वत्स्तुतौ वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ २॥ स्पर्शः स्पर्शमणेः करोति कनकं लोहं सुजीर्णं बली देह तुच्छतमं विचार्य…

प्रपत्त्यष्टकम् सार्थम्

|| प्रपत्त्यष्टकम् सार्थम् || आवर्तपुर्यां जनितं प्रपद्ये पाण्ड्येशदेशे विहृतं प्रपद्ये । शोणाचलप्रस्थचरं प्रपद्ये भिक्षुं तपःक्लेशसहं प्रपद्ये ॥ १॥ आब्रह्मकीटान्तसमं प्रपद्ये जितारिषड्वर्गमहं प्रपद्ये । सर्वज्ञतासारभृतं प्रपद्ये निस्सीमकारुण्यनिधिं प्रपद्ये ॥ २॥ अस्मात्प्रपञ्चादधिकं प्रपद्ये विश्वाधिकोक्तेर्विषयं प्रपद्ये । कालग्रहग्राहभयापनुत्यै कृतान्तशिक्षाकृतिनं प्रपद्ये ॥ ३॥ विनेतुमार्तिं विषयाध्वजन्यां विज्ञानमूर्तिं दधतं प्रपद्ये । कन्दर्पदर्पज्वरवारणाय कामारिलीलावतारं प्रपद्ये ॥ ४॥ आजन्मवर्णिव्रतिनं प्रपद्ये कुण्डीभृतं दण्डधरं प्रपद्ये…

श्रीपीपाचार्याष्टकम्

|| श्रीपीपाचार्याष्टकम् || गाङ्गरौनगढेशं च खाचीवंशशिरोमणिम् । पीपाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥ रामानन्दयतीन्द्रस्य शिष्यं श्रीवैष्णवोत्तमम् । पीपाचार्यमहं वन्दे द्वाराचार्य जगद्गुरुम् ॥ २॥ सागरस्यान्तरे श्रीमद्द्वारावत्याश्च दर्शकम् । पीपाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥ रामानन्दमताम्भोधेर्वर्धकं विधुमुत्तमम् । पीपाचार्यमहं वन्दे द्वाराचार्य जगद्गुरुम् ॥ ४॥ भक्तानन्दविधातारमानन्दभाष्यचिन्तकम् । पीपाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥ रामभक्तिप्रपत्तिभ्यां मुक्त्यानन्दप्रदायकम् । पीपाचार्यमहं वन्दे…

श्रीपादुकाष्टकम्

|| श्रीपादुकाष्टकम् || श्रीसमज्ञितमव्ययं परमप्रकाशगोचरं खेदवर्जितमप्रमेयमनन्तमझ्झितकल्मषम् । निर्मलं निगमान्तनमद्भुतमप्यतर्क्यमनुत्तमं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ १॥ नादबिन्दु कलात्मकं दशनाद वेद विनोदितं मन्त्रराजपराजितं निजमण्डलान्तरभासितम् । पञ्चवर्णमखण्डमद्भुतमादिकारणमच्युतं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ २॥ हन्तचारुमखण्डनादमनेक वर्णमरूपकं शब्दजालमयं चराचर जन्तुदेहनिरासिनम् । चक्रराजमनाहतोद्भवमेघवर्णमतत्परं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ३॥ बुद्धिरूपमबद्धकं त्रिदैवकूटस्थनिवासिनं निश्चयं निरतप्रकाशमनेक सद्रुचिरूपकम् । पङ्कजान्तरखेलनं निजशुद्धसख्यमगोचरं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये…

पादावलम्बनस्तुतिः

|| पादावलम्बनस्तुतिः || स्थितेऽनुकम्पामकरन्दपूर्णे जगद्गुरोः पादसहस्रपत्रे । किमन्यतो धावसि चित्तभृङ्ग प्रयाहि तत्रैव रमस्व नित्यम् ॥ १॥ योगिवर्य यमिराजनताङ्घ्रे भोगिराजनवनीयचरित्र । रागिभिन्नमनुजाप्यपदाब्ज देशिकेन्द्र मम देह्यवलम्बम् ॥ २॥ यद्वचोमधुरिमापजितेमं लोकमेव विससर्ज सुधाऽपि । पादपद्मनतमुक्तिद स त्वं देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ३॥ दातृभावमवगम्य महान्तं कर्ण आप जनकर्णपथं ते । दारिताखिलदरिद्रजनार्ते देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ३॥ शान्तिदान्तिविरतीरपवर्ग- प्रापिकाः सुदृढमाशु…

श्रीपरमगुरुप्रभुवराष्टकम्

|| श्रीपरमगुरुप्रभुवराष्टकम् || प्रपन्नजननीवृति ज्वलति संसृतिर्ज्वालया यदीयनयनोदितातुलकृपातिवृष्टिर्द्रुतम् । विधूय दवथुं करोत्यमलभक्तिवाप्यौचितीं स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ १॥ यदास्यकमलोदिता व्रजभुवो महिम्नां ततिः श्रुता बत विसर्जयेत्पतिकलत्रपुत्रालयान् । कलिन्दतनयातटी वनकुटीरवासं नयेत् स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ २॥ व्रजाम्बुजदृशां कथं भवति भावभूमा कथं भवेदनुगतिः कथं किमिह साधनं कोऽधिकृत् । इति स्फुटमवैति को यदुपदेशभाग्यं विना स कृष्णचरणः प्रभुः…

श्रीमन् न्यायसुधास्तोत्रम्

|| श्रीमन् न्यायसुधास्तोत्रम् || यदु तापसलभ्यमनन्तभवैस्दुतो परतत्त्वमिहैकपदात् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ १॥ विहितं क्रियते ननु यस्य कृते स च भक्तिगुणो यदिहैकपदात् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ २॥ वनवासमुखं यदवाप्तिफलं तदनारतमत्र हरिस्मरणम् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ३॥ निगमैरविभाव्यमिदं वसु यत् सुगमं पदमेकपदादपि तत् । जयतीर्थकृतौ…

श्रीनृसिंहसरस्वतीस्तोत्रम् २

|| श्रीनृसिंहसरस्वतीस्तोत्रम् २ || प्राग्ब्रह्म त्वमजोऽक्रियोऽपि बहुलं स्यामित्यभूद्धीस्तया सृष्ट्वैवाण्डभुवं ततो जगदिदं सृष्टं सधर्मं गुणैः । स्वैः स्वं भो रमयन्विहंसि सदरीनत्रावतीर्यानिशम् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ १॥ कल्याकृष्टहृदुझ्झितक्रतुनर-त्रस्ताध्वराशीर्मुदे प्रातः सूर्य इवोदितोऽस्यज महामोहान्धकारं ग्रसन् । सद्धर्माश्रमसेतुमत्र शिथिलप्रायं सुदार्ढ्यां नयन् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ २॥ सर्वानन्दनिधानरूपममलं स त्वं सुखं मूर्तिमत् प्रादुष्कृत्य जनत्रयान्तरमृग-क्रीडावनं पावनम्…

श्रीनृसिंहसरस्वतीस्तोत्रम् १

|| श्रीनृसिंहसरस्वतीस्तोत्रम् १ || कोट्यर्कभं कोटिसुचन्द्रशान्तं विश्वाश्रयं देवगणार्चिताङ्घ्रिम् । भक्तप्रियं त्वात्रिसुतं वरेण्यं वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ १॥ मायातमोऽर्कं विगुणं गुणाढ्य्ं श्रीवल्लभं स्वीकृतभिक्षुवेषम् । सद्भक्तसेव्यं वरदं वरिष्ठं वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ २॥ कामादिषण्मत्तगजाङ्कुशं त्वामानन्दकन्दं परतत्त्वरूपम् । सद्धर्मगुप्त्यै विधृतावतारं वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ३॥ सूर्येन्दुगुं सज्जनकामधेनुं मृषोद्यपञ्चात्मकविश्वमस्मात् । उदेति यस्मिन्रमतेऽस्तमेति वन्दे…

श्रीनृसिंहसरस्वतिस्तोत्रम्

|| श्रीनृसिंहसरस्वतिस्तोत्रम् || (शार्दूलविक्रीडितवृत्तम्) सर्वप्राणिशुभात्मकं श्रुतिनुतं दिव्यं पदं पावनं अज्ञानान्धदृगार्तमूढजनताभास्वत्प्रदीपाननम् । भक्तानन्तशुभेप्सितार्थफलदं राराजमानं गुरुं भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ १॥ ब्रह्माविष्णुमहेशरूपममलं श्रीदत्तनामाङ्कितं सर्वप्राणिविजीवनं निरवधिं सर्वान्तरज्योतिषम् । स्मृत्यादिश्रुतियुक्तिभिः परिचितं स्वानन्दसूर्यं गुरुं भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ २॥ संसाराम्बुधिमज्जनार्दितनरत्राणक्रियातत्परं मायौद्धत्यविलापकामृतगिरं सर्वज्ञमीशं गुरुम् । मायासृष्टिविकारशून्यममलं ब्रह्माभयं शाश्वतं भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ ३॥ नानाचित्रचरित्रदिव्यकुसुमामोदान्न्विताङ्गप्रभुं नानाभक्तगणालिसेवितपदद्वन्द्वाम्बुजं…

श्रीनिम्बार्कस्तोत्रम्

|| श्रीनिम्बार्कस्तोत्रम् || श्रीमते सर्वविद्यानां प्रभवाय सुब्रह्मणे । प्राचार्याय मुनीन्द्राय निम्बार्काय नमोनमः ॥ १॥ निम्बादित्याय देवाय जगज्जन्मादिकारिणे । सुदर्शनावताराय नमस्ते चक्ररूपिणे ॥ २॥ नमः कल्याणरूपाय निर्दोषगुणशालिने । प्रज्ञानघनरूपाय शुद्धसत्त्वाय ते नमः ॥ ३॥ सूर्यकोटिप्रकाशाय कोटीन्दुशीतलाय च । शेषानिश्चिततत्त्वाय तत्त्वरूपाय ते नमः ॥ ४॥ विदिताय विचित्राय नियमानन्दरूपिणे । प्रवर्त्तकाय शास्त्राणां नमस्ते शास्त्रयोनये ॥ ५॥ वसतां नैमिषारण्ये…

श्री कुंज बिहारी अष्टकम

|| श्री कुंज बिहारी अष्टकम || य: स्तूयते श्रुतिगणैर्निपुणैरजस्रं, सम्पूज्यते क्रतुगतै: प्रणतै: क्रियाभि:। तं सर्वकर्मफ़लदं निजसेवकानां, श्रीमद्‍ विहारिचरणं शरणं प्रपद्ये॥ यं मानसे सुमतयो यतयो निधाय, सद्यो जहु: सहृदया हृदयान्धकारम्। तं चन्द्रमण्डल-नखावलि-दीप्यमानं, श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥ येन क्षणेन समकारि विपद्वियोगो, ध्यानास्पदं सुगमितेन नुतेन विज्ञै:। तं तापवारण-निवारण-सांकुशांकं , श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥ यस्मै विधाय विधिना…

श्रीनिम्बार्कसहस्रनामस्तोत्रम्

|| श्रीनिम्बार्कसहस्रनामस्तोत्रम् || श्रीसर्वेश्वरो जयति ॥ श्रीभगवन्निम्बार्काचार्याय नमः ॥ उपोद्घातः- अनिरुद्धः सदा त्राता निम्बार्कः पुरुषार्थवृट् । कृपाचारसुधावृष्ट्या निगमौघ-प्रवर्तकः ॥ १॥ त्रेतायुगे गत-प्राये नैमिषारण्य-वासिनः । आराधनाय कृष्णस्य विप्रा गौरमुखादयः ॥ २॥ बहुकालं तपस्तप्त्वा नारायण-परायणाः । ध्रुवमध्वरमाराध्यारेभिरे ते मखान्तरम् ॥ ३॥ नीयमाने मखे तस्मिन् विघ्नदा बहवोऽभवन् । द्वेषिभिर्ध्वंसिते यज्ञे दैत्यैः सत्कदन-प्रियैः ॥ ४॥ तपोयाग-समावृत्या ऋषयः कृष्णयाजिनः ।…

श्रीनिम्बार्कमहिमाष्टकम्

|| श्रीनिम्बार्कमहिमाष्टकम् || राधामुकुन्दाऽङ्घ्रिसरोजभृङ्गं भक्तेष्टवाञ्छातरुमाप्त सेव्यम् । नवाम्बुदश्यामलगञ्जुलाङ्गं निम्बार्कमाचार्यमनुस्मरामि ॥ १॥ आचर्यवर्यं हरिचक्रराजं भवाऽब्धिसेतुं भयमुक्तिहेतुम् । गिरीन्द्रगोवर्धनराजमानं निम्बार्कदेवं हृदि भावयामि ॥ २॥ सुमन्दमेधारतिदानशीलं निकुञ्जकुञ्जान्तरनित्यवासम् । श्रीकृष्णलीलारसपानमत्तं निम्बार्क-देवं मनसा स्मरामि ॥ ३॥ पाखण्डकण्डूशमनप्रवीणं श्रुत्यर्थ-सम्यक्पथबोधशीलम् । गोविन्द-भक्त्या-रसवृष्टिकारमाचार्यनिम्बार्कमिहस्मरामि ॥ ४॥ अनन्तकारुण्यगुणैकधाम प्रशान्तचित्तं प्रचुरप्रभावम् । प्रेमातिसान्द्रं परिपूर्णकामं निम्बार्कमीडे रससन्निधानम् ॥ ५॥ वेदान्त-गीताकृतदिव्यभाष्यं स्वाभाविकं भिन्नमभिन्नरूपम् । संस्थापितं वै निजवादमाद्यं तं…

श्रीनिम्बार्ककवचम्

|| श्रीनिम्बार्ककवचम् || निम्बार्क-कवचं वक्ष्ये महर्षिगणमध्यतः । हविर्द्धानं नमस्कृत्य गौरमुख उवाच ह ॥ १॥ निम्बार्क-कवचं वक्ष्ये सम्पद्येते यशोजयौ । संकटे दुर्गमे प्राप्ते प्राणरक्षाकरं नृणाम् ॥ २॥ निम्बार्क कवचस्यास्य सर्वाचार्याद्वयस्य च । ऋषिगौरमुखश्च् छन्दोऽनुष्टुप् निम्बार्क एव तु ॥ ३॥ देवः सुदर्शनो बीजं शक्तिः पुराणमेव च । विततं कीलकं चैव पवित्रं कवचं तथा ॥ ४॥ चक्र मस्त्रं…

श्री रवि अष्टकम्

|| श्री रवि अष्टकम् PDF || उदयाद्रिमस्तकमहामणिं लसत् कमलाकरैकसुहृदं महौजसम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ १ ॥ तिमिरापहारनिरतं निरामयं निजरागरञ्जितजगत्त्रयं विभुम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ २ ॥ दिनरात्रिभेदकरमद्भुतं परं सुरवृन्दसंस्तुतचरित्रमव्ययम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ३ ॥ श्रुतिसारपारमजरामयं परं रमणीयविग्रहमुदग्ररोचिषम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ४ ॥ शुकपक्षतुण्डसदृशाश्वमण्डलं अचलावरोहपरिगीतसाहसम् ।…

श्री रवि सप्तति रहस्यनाम स्तोत्रम्

|| श्री रवि सप्तति रहस्यनाम स्तोत्रम् PDF || हंसो भानुः सहस्रांशुस्तपनस्तापनो रविः । विकर्तनो विवस्वांश्च विश्वकर्मा विभावसुः ॥ १ ॥ विश्वरूपो विश्वकर्ता मार्तण्डो मिहिरोऽम्शुमान् । आदित्यश्चोष्णगुः सूर्योऽर्यमा ब्रध्नो दिवाकरः ॥ २ ॥ द्वादशात्मा सप्तहयो भास्करो हस्करः खगः । सूरः प्रभाकरः श्रीमान् लोकचक्षुर्ग्रहेश्वरः ॥ ३ ॥ त्रिलोकेशो लोकसाक्षी तमोऽरिः शाश्वतः शुचिः । गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः ॥ ४…

नवनाथस्तोत्रम्

|| नवनाथस्तोत्रम् || ॐ नमो नवनाथेभ्यः । अथ नवनाथस्तोत्रम् । आदेशवस्तुविषयः सुरसिद्धलक्ष्यो यश्चैकनाथ इह सन्नवमूर्ति-पूर्तिः । सर्वोपरि प्रतिपलं वरिवर्ति कुर्वे कायेन तस्य मनसा वचसा प्रणामम् ॥ १॥ मोहान्धकारविचलन्मनसो मनुष्यां, स्वत्त्वोज्झितानपि परम्परयोपदेष्टुम् । तत्त्वं विमुक्तय उताकृत योगशास्त्रमादेश एतु मम तत्र य आदिनाथः ॥ २॥ यो ह्यादिनाथ उत राघवमत्स्यजन्मा मत्स्येन्द्रनाथ इति योगकभोगवृत्तिः । विस्मापयन्नखिलसिद्धसुरांश्च जात आदेश एतु…

पृथ्वी मंत्र

|| पृथ्वी मंत्र (Prithvi Mantra PDF) || ॐ पृथ्वीदेव्यै विद्महे सहस्रमूर्तयै धीमहि तन्नो पृथ्वी: प्रचोदयात् || ॐ पृथ्वीदैव्यै विद्महे धराभूर्तये धीमहि तन्नः पृथ्वी प्रचोदयात्। ॐ समुद्र वसने देवी पर्वतस्तन मंडिते | विष्णुपत्नीं नमस्तुभ्यं पादस्पर्श क्षमस्व में ||

श्रीनरहर्यानन्दाचार्याष्टकम्

|| श्रीनरहर्यानन्दाचार्याष्टकम् || चिन्तकानां च रामस्य शिरोमणिमनुत्तमम् । नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ १॥ आश्रितानां च लोकानां कल्याणकल्पपादपम् । नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ २॥ आनन्दभाष्यबोद्धारं भक्तिदानेन मुक्तिदम् । नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ३॥ रामानन्दीयधर्मस्य महाविस्तारकारकम् । नृहर्यानन्दमीडेऽहं द्वाराचार्य जगद्गुरुम् ॥ ४॥ अनन्तानन्दशिष्यं च तुलसीदाससद्गुरुम् । नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ५॥ योगीन्द्रसिद्धभूपालप्राज्ञवृन्दोपसेवितम् । नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥…

श्रीनरसिंहभारतीपादाष्टकम्

|| श्रीनरसिंहभारतीपादाष्टकम् || श्रीकीर्तिप्रतिभानां भवनं भविता यदीयपदनत्या तान्दासीकृतभूपान्वन्दे नरसिंहभारतीपादान् ॥ १॥ चित्रं यन्मुखचन्द्रालोकाद्विकसन्ति चित्तपद्मानि । शिष्याणामनिशं तान्वन्दे नरसिंहभारतीपादान् ॥ २॥ सरसान्कवितासारान्वर्षत्यास्येषु नम्रजनतायाः । यदपाङ्गवारिदस्तान्वन्दे नरसिंहभारतीपादान् ॥ ३॥ एनःपर्वतभेदे शतकोटिधुरं दधाति यद्भक्तिः । पापाब्धिबाडवांस्तान्वन्दे नरसिंहभारतीपादान् ॥ ४॥ यद्वाक्श्रुतिर्नराणां भवसागरतारणे नौका । शीलितनिगमान्तांस्तान्वन्दे नरसिंहभारतीपादान् ॥ ५॥ त्रासितकामगजेन्द्रान्स्ववचश्चातुर्यतोषितार्यजनान् । क्रोधाहिवैनतेयान्वन्दे नरसिंहभारतीपादान् ॥ ६॥ वितरणधिक्कृतकर्णान्क्षमया निर्धूतमेदिनीगर्वान् । विरतिविधूतार्यशुकान्वन्दे नरसिंहभारतीपादान्…

श्रीदेशिकाष्टकम्

|| श्रीदेशिकाष्टकम् || श्रीगणेशाय नमः । श्री गुरुभ्यो नमः । विश्वदर्पणदृश्यतासमतामुपादिशदादरात् विश्ववन्दितपादपङ्कजतत्त्वबोधनिदानवित् । विश्वदेशिकराजराण्मम मानसे परिवर्ततां तं गुरुं कृतहन्तृताघनिवृत्तये स्मरतास्तिकाः ॥ १॥ योहिभट्टमुखेननाशितबौद्धवृन्दजगत् सुरै- रर्थितोऽवततार वैदिकतत्त्वबोधविवृद्धये । लीलयाऽखिलवेदशास्त्रविदादिमाश्रमचर्यया दीनपोषणमातृतोषण विस्मिताखिलपावनः ॥ २॥ साधुबोधितमातृसम्मतियोगसेवितयोगिराट् नर्मदाझरनिग्रहग्रहदेशिकानुमतो गुरुः । गाङ्गरोधसि संवसन्मुनिमण्डलैः परिशीलयन् सूत्रवेदशिरस्सुगीतसनत्सुजातसहस्रकम् ॥ ३॥ भाष्यभूषितमागताब्जपदादिनेयमबोधयत् व्यासतोषणवादघोरणिरीशदत्तवरेड्यराट् । भट्टपादनिदेशमण्डनमिश्रवादविशारदो भारतीमपि सञ्जयन्नमरूर्ग्जयन् नृहरिं स्तुवन् ॥ ४॥ शिष्यमण्डनखण्डिताखिलवादिवादविजृम्भणो मूकमातृमुखालयाटनहस्तधात्रिनिषेवितः ।…

श्रीदेवमुरारिदेवाचार्याष्टकम्

|| श्रीदेवमुरारिदेवाचार्याष्टकम् || जनानां मुक्तिदं भक्त्या खरारेजनिकीपतेः । वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम् ॥ १॥ श्रीमदानन्दभाष्यज्ञं रामब्रह्मावबोधकम् । वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम् ॥ २॥ रामानन्दयतीन्द्रस्य धर्माम्भोधेः सुधाकरम् । वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम् ॥ ३॥ शिष्याणां मन्त्रमालादिदिव्य संस्कारकारकम् । वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम् ॥ ४॥ सम्प्रदायरहस्यानां भव्यव्याख्यानकारकम् । वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम्…

श्रीदुन्दुरामाचार्याष्टकम्

|| श्रीदुन्दुरामाचार्याष्टकम् || श्रीसीतारामभक्तानां भक्तिभावप्रदं नृणाम् । दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥ सीतारामप्रपन्नं च श्रीमद्दामोदराभिधम् । दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥ सदाचारं प्रदायाथ दुराचारापसारकम् । दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥ वादिनां च विजेतारं स्वानुयायिजयावहम् । दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥ रामानन्दस्य धर्मस्य रक्षाकर्मीण दीक्षितम् । दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥…

श्रीदिवाकराचार्याष्टकम्

|| श्रीदिवाकराचार्याष्टकम् || आनन्दभाष्यसिद्धान्तदातारं ज्ञानिनं मुनिम् । वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥ रामानन्दीयधर्मस्य रक्षकं चाभिवर्धकम् । वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥ आशिषो रामभक्तेश्च दानेन भुक्तिमुक्तिदम् । वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥ मन्त्रार्थदानकर्त्तारं मन्त्राणामर्थवेदिनम् । वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥ रामायणकथासक्तं रामाराधनतत्परम् । वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥ अवैष्णवान् निराकृत्य वैष्णवधर्मबोधकम्…

श्रीदाननिर्वर्तनकुण्डाष्टकम्

|| श्रीदाननिर्वर्तनकुण्डाष्टकम् || स्वदयितगिरिकच्छे गव्यदानार्थमुच्चैः कपटकलहकेलिं कुर्वतोर्नव्ययूनोः । निजजनकृतदर्पैः फुल्लतोरीक्षकेऽस्मि- न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ १॥ निभृतमजनि यस्माद्दाननिर्वृत्तिरस्मि- नत इदमभिधानं प्राप यत्तत्सभायाम् । रसविमुखनिगूढे तत्र तज्ञैकवेद्ये सरसि भवतु वासो दाननिर्वर्तने नः ॥ २॥ अभिनवमधुगन्धोन्मत्तरोलम्बसङ्घ ध्वनिललितसरोजव्रातसौरभ्यशीते । नवमधुरखगालीक्ष्वेलिसञ्चारकाम्रे सरसि भवतु वासो दाननिर्वर्तने नः ॥ ३॥ हिमकुसुमसुवासस्फारपानीयपूरे रसपरिलसदालीशालिनोर्नव्ययूनोः । अतुलसलिलखेलालब्धसौभाग्यफुल्ले सरसि भवतु वासो दाननिर्वर्तने नः ॥…

दयाष्टकम्

|| दयाष्टकम् || मातस्त्वां रमणेशसद्गुरुकृपे ! नाथामि नत्वा मुहुः क्रुद्धे शान्तिनिकेतनेऽपि रमणे मत्सञ्चितैर्दुष्कृतैः । तत्काले भवती तदीयहृदये सान्निध्यमाबिभ्रती यद्यस्मत्प्रियमातनोषि तदलं तस्य प्रिया त्वं यतः ॥ १॥ देवि ! त्वं करुणे ! श्रितासि रमणं सोऽपि त्वदावर्जितः त्वां हित्वा प्रियवल्लभां स च नृणां भद्रं न कर्तुं क्षमः । त्वं चेत्तस्य विभोर्भवत्कृतपरिष्वङ्गैरपाङ्गैरमुं मामालोकयसे क्षतिस्तव तु का किंस्याच्च मे…

श्रीदयानन्दमङ्गलाष्टकम्

|| श्रीदयानन्दमङ्गलाष्टकम् || ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ श्रीदयानन्दमङ्गलाष्टकम् । शतकुम्भहृदब्जाय शतायुर्मङ्गलाय च । शताभिषेकवन्द्याय दयानन्दाय मङ्गलम् ॥ १॥ सहस्राब्जसुदर्शाय सहस्रायुतकीर्तये । सहजस्मेरवक्त्राय दयानन्दाय मङ्गलम् ॥ २॥ गङ्गादर्शनपुण्याय गङ्गास्नानफलाय च । गङ्गातीराश्रमावासदयानन्दाय मङ्गलम् ॥ ३॥ वेदोपनिषदागुप्तनित्यवस्तुप्रकाशिने । वेदान्तसत्यतत्त्वज्ञदयानन्दाय मङ्गलम् ॥ ४॥ शुद्धज्ञानप्रकाशाय शुद्धान्तरङ्गसाधवे । शुद्धसत्तत्त्वबोधाय दयानन्दाय मङ्गलम् ॥ ५॥ दमादिशमरूपाय यानन्दवाक्प्रबोधिने…

सद्गुरुश्रीत्यागब्रह्मप्रपत्तिस्तुतिः

|| सद्गुरुश्रीत्यागब्रह्मप्रपत्तिस्तुतिः || ॐ । श्रीरामजयम् । श्रीः ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ त्यागराजाय विद्महे । भक्ताश्रयाय धीमहि । तन्नो गुरुः प्रचोदयात् ॥ अथ सद्गुरुश्रीत्यागब्रह्मप्रपत्तिस्तुतिः । सरससङ्गीतभास्कर परमसुज्ञानभास्वर लडहरागस्वरार्णव सदयरामप्रियार्णव । शमनसप्तस्वरालय महितनामस्वरालय शरणमाचार्यदैवत शरणमाचार्यदैवत ॥ १॥ सहजसद्दर्शनायुत सततसत्तारकारत सवनसंरक्षदर्शन सततसच्चित्तदर्शित । गुरुवरत्यागराजग वरकृतिस्तोत्ररामग शरणमाचार्यदैवत शरणमाचार्यदैवत ॥ २॥ प्रणवनादोपदेशन प्रणतभक्तार्थसाधन प्रणतबाधाप्रशामन परमशान्तिप्रदायन । परमसद्भक्तिबोधन…

श्रीत्यागब्रह्मगुर्वष्टकम्

|| श्रीत्यागब्रह्मगुर्वष्टकम् || ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ गुर्वष्टकम् । गुरुरामसुभक्त्युतगाननिधिः गुरुसन्त्यजनायुतनामनिधिः । गुरुतेजजितायुतभासनिधिः गुरुरेवमदाश्रयतत्त्वनिधिः ॥ १॥ गुरुगद्यसुपद्यनुताशुकविः गुरुनामसुकीर्तनदिव्यसरिः । गुरुसत्कृतिकीर्तननव्यरुचिः गुरुरेवमदाश्रयसत्त्वनिधिः ॥ २॥ गुरुवाणिसुकीर्तनमिष्टवचः गुरुसुस्वरहृद्गतनामजपः । गुरुतथ्यनुतप्रभुभक्तिशयः गुरुरेवमदाश्रयतथ्यनिधिः ॥ ३॥ गुरुपञ्चनदप्रियगीतसुखी गुरुवाञ्छितसर्वदरामसुधीः । गुरुलाञ्छितलाघवकाव्यरसी गुरुरेवमदाश्रयनित्यनिधिः ॥ ४॥ गुरुगेयसुशिल्पितरामहरिः गुरुकीर्तनमन्दिरपूजितसः । गुरुनादलयालयभासुरसः गुरुरेवमदाश्रयनादनिधिः ॥ ५॥ गुरुपामरदूरसुनादहिमः गुरुपामरबोधनसत्कृतिदः । गुरुमानसपावननामसुगः…

तोटकस्तोत्रम्

|| तोटकस्तोत्रम् || श्रीजगद्गुरु श‍ृङ्गेरी श्रीचन्द्रशेखरभारतीस्वामि अनुगृहीता स्मितनिर्जितकुन्दसुमं ह्यसमं मुखधूतसुधांशुमदं शमदम् । सुखरूपपरात्मरतं निरतं श्रितकल्पतरुं प्रणमामि गुरुम् ॥ १॥ जलबुद्बुदवत् क्षणभङ्गयुते मलमूत्रवसासहिते वपुषि । कुरुतेऽभिमतिं हृदयं हि मुधा लघु वारय देशिक तां दयया ॥ २॥ धृतदण्डकमण्डलुजापसरं सततं हृदये शशिखण्डधरम् । दधतं नमतां वृजिनौघहरं ददतं प्रतिभां प्रणमामि गुरुम् ॥ ३॥ करणानि समानि भवन्ति कदा तरणं नु…

श्रीतुकारामाष्टकम्

|| श्रीतुकारामाष्टकम् || ॐ श्री । श्रीशङ्कर । (अनुष्टप्) सन्तश्रेष्ठं परात्मानं अनन्यसदृशं गुरुम् । उग्रमन्तर्मृदुं वन्दे तुकारामं हरिप्रियम् ॥ १॥ अम्बलेकुलसम्भूतं देहूग्रामविभूषणम् । विरक्तिवल्लभं वन्दे तुकारामं हरिप्रियम् ॥ २॥ अभङ्गरचना यस्य सर्वसाधकदेशिका । जनोद्धर्त्री च तं वन्दे तुकारामं हरिप्रियम् ॥ ३॥ वैकुण्ठभवनं त्यक्त्वा लोककल्याण हेतवे । अवतीर्णं प्रभुं वन्दे तुकारामं हरिप्रियम् ॥ ४॥ प्रेममूर्तिं भक्तवर्यं…

तारावलिस्तुतिः

|| तारावलिस्तुतिः || अज्ञानान्धतमो विमोहितधियां दुर्वादकोलाहलै- रालीने सकले सनातनपथे कालेयलीलायितैः । क्षेमाय क्षितिमण्डले करुणया कृत्वाऽऽकृतिं प्राकृतीं निर्धूताखिलदुर्मतो विजयते श्रीशङ्करश्शङ्करः ॥ १॥ पुण्यैर्भूतलसम्भ्रमैरुपनिषद्भाष्यादिवाग्गुम्भनैः शिष्यैश्चाप्यफलीकृते स्वरचितत्र्यैलोक्यरक्षाक्रमे । जीयाच्छङ्करसद्गुरोः प्रियकृते जातावतारः पुनः सोऽयं श्रीरमणो गुरुर्गुणगणैरध्यात्मनिष्ठो मुनिः ॥ २॥ रमणेशपदाम्भोज रजःकणमुपास्महे । यद्वासनापरिष्वङ्गाद्विगलन्ति कुवासनाः ॥ ३॥ आह्लादाऽऽवहमञ्जनं नयनयोरङ्गे सुधालेपनं धैर्यं चेतसि खेदनामकगदप्रोत्सारकं भेषजम् । मध्याह्नार्क इव प्रसूतिजलधौ लोकप्रकाशोदयं पुण्यैः…

श्रीतारानन्दगुर्वष्टकम्

|| श्रीतारानन्दगुर्वष्टकम् || ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ श्रीतारानन्दगुर्वष्टकम् । गङ्गातीरसुवासं तं गङ्गालीनतपस्विनम् । श्रीदयानन्दशिष्यार्यं तारानन्दगुरुं भजे ॥ १॥ ब्रह्मसूत्रप्रबोधं तं ब्रह्मत्वतत्त्वबोधकम् । ब्रह्मप्रकाशरूपं तं तारानन्दगुरुं भजे ॥ २॥ ब्रह्मविद्यासुबोधं तं तारकज्ञानमार्गिणम् । ब्रह्मज्ञानस्वलीनं तं तारानन्दगुरुं भजे ॥ ३॥ ब्रह्मनिष्ठापरं शान्तं संयतं यतभाषिणम् । ब्रह्मलीनं तपस्तीर्थं तारानन्दगुरुं भजे ॥ ४॥ एकान्तं…

श्रीटीलाचार्याष्टकम्

|| श्रीटीलाचार्याष्टकम् || रामानन्दीयसिद्धान्तवारिधेर्वर्धकं विधुम् । टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥ सिंहंवादिद्विपानां च विशिष्टाद्वैतवादिनम् । टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥ विजेतारं च सिद्धानां सिद्धेशं सिद्धिदायिनम् । टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥ श्रीमदानन्दभाष्याब्जभास्करं ब्रह्माचारिणम् । टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥ भक्तिशिक्षासुधावर्षिवारिदं मृत्युवारकम् । टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥ श्रीसाकेतनिवासाख्यं मुक्तिदं भक्तिदानतः…

श्रीटीकाकृत्पादाष्टकम्

|| श्रीटीकाकृत्पादाष्टकम् || योऽधत्त प्रथमो गवां गुणनिधेर्गोविन्दभक्तो गुरो- भारान् हृदये बहिश्च गुरुणा प्रेम्णा भविष्यद्विधेः । टीकाऽस्मद्वचसामुदेष्यति वरे गौः प्रौढशिष्येष्विति छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ १॥ ऊढः सत्तुरगं पिपासुरुदकं गौर्वत् पिबन्नास्यतः शिष्यस्ते भविता पुराऽर्जुन इव द्रोणस्य तस्माद्यशः । भूयादित्युदितेन सौख्यवचसा योऽक्षोभ्यराजेक्षितः छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ २॥ किं ते भूप पुराऽऽर्जितं शुभकृतं यस्त्वां वृणीतुं मनो दघ्रेऽक्षोभ्यमुनीश्वरेण वशिना शापे…

श्रीगौराङ्गसहस्रनामस्तोत्रम्

|| श्रीगौराङ्गसहस्रनामस्तोत्रम् || कैलासशिखरे रम्य सुखासीनं त्रिलोचनम् । प्रणम्य शिरसा नाथं पार्वती परिपृच्छति ॥ १॥ पार्वत्युवाच । तत्र श्रुतं पुरा देव ! गौराङ्गस्य महात्मनः । सहस्र नाम सच्चित्रं गकारादिकमिष्टदम् ॥ २॥ गुह्याद्गुह्यतरं लोके सर्वाभीष्टार्थसाधकम् । तन्मे वदस्व देवेश यद्यहं वल्लभा तव ॥ ३॥ महादेव उवाच । लक्षवारसहस्राणि वारितासि पुनः पुनः । स्त्रीस्वभावान्महादेवि ! पुनस्तत् परिपृच्छसि…

श्रीगोरक्षसहस्रनामस्तोत्रम्

|| श्रीगोरक्षसहस्रनामस्तोत्रम् || श्रीगोरक्ष विधि विधान ॐ श्री गणेशाय नमः ॥ ॐ गोरक्षनाथाय नमः ॥ योगीन्द्रं योगगम्यं यतिपतिममलं सच्चिदानन्दरूपं शून्याधारं निरीहं जगदुदयलयस्थैर्यंहेतुं मुनीन्द्रम् । स्वात्मारामाभिरामं भवभय हरणं भुक्तिमुक्त्योर्निदानं पुण्यं वन्दारुवन्द्यं सुविदितयशसं नौमि गोरक्षनाथम् ॥ श्रीकृष्ण उवाच – गोरक्षनाथः को देवः को मन्त्रस्तस्य पूजने । सेव्यते केन विधिना तन्मे ब्रूहि महामुने ॥ १॥ गर्ग उवाच –…

गोपालगुरुगोस्वामीप्रभोराष्टकम्

|| गोपालगुरुगोस्वामीप्रभोराष्टकम् || श्रीमन्मुरारितनयं विनयादमन्दं वन्दे सदैव मकरध्वजपण्डिताख्यम् । श्रीगौरचन्द्रकृपयार्पितगौरवं श्री- गोपालपूर्वगुरुरित्यभिधां दधे यः ॥ १॥ वन्दे तमेव तिलकं किल कल्पयित्वा गौरप्रभुर्हरिपदाकृति यस्य भाले । स्वीयासने समुपवेश्य जगत्त्रयस्य विस्मापिकामपि विकाशयति स्म शक्तिम् ॥ २॥ शिक्षागुरुं स्वकृपया स शचीतनूजो यं कारणं किमपि वीक्ष्य चकार धीरम् । सिद्धाख्यायाप्यभिदधे स्वयमेव मञ्जु- मेधेति तं गुरुवरं शरणं भजामि ॥ ३॥…

श्रीगीतासार गुर्वष्टोत्तरशतनामावलिस्तोत्रम्

|| श्रीगीतासार गुर्वष्टोत्तरशतनामावलिस्तोत्रम् || श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । गीतामध्यगतैरेव ग्रथितेयं पदैः शुभैः । आचार्येन्द्रपदाम्भोजे भक्त्या माला समर्प्यते ॥ वक्तुं ब्रह्मविदां श्रेष्ठं मनोवाचामगोचरम् । कथमन्याः समर्थाः स्युर्वाचो भागवतीर्विना ॥ प्रशान्तात्मा विगतभीर्योगी विगतकल्मषः । योगयुक्तो विशुद्धात्मा यतचित्तेन्द्रियक्रियः ॥ १॥ स्वकर्मनिरतः शान्तो धर्मात्माऽमितविक्रमः । मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ॥ २॥ स्थिरबुद्धिरसंमूढो जितात्मा विगतस्पृहः । सर्वसङ्कल्पसंन्यासी भक्तः सङ्गविवर्जितः ॥…

श्रीरुद्राष्टकं

|| अथ श्रीरुद्राष्टकं PDF || नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेहम् निराकारमोङ्करमूलं तुरीयं गिराज्ञानगोतीतमीशं गिरीशम् । करालं महाकालकालं कृपालं गुणागारसंसारपारं नतोहम् तुषाराद्रिसंकाशगौरं गभिरं मनोभूतकोटिप्रभाश्री शरीरम् । स्फुरन्मौलिकल्लोलिनी चारुगङ्गा लसद्भालबालेन्दु कण्ठे भुजङ्गा चलत्कुण्डलं भ्रूसुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालम् । मृगाधीशचर्माम्बरं मुण्डमालं प्रियं शङ्करं सर्वनाथं भजामि प्रचण्डं प्रकृष्टं प्रगल्भं परेशं अखण्डं अजं…

श्री हनुमदष्टकम्

|| श्री हनुमदष्टकम् PDF || श्रीरघुराजपदाब्जनिकेतन पंकजलोचन मंगलराशे चंडमहाभुजदंड सुरारिविखंडनपंडित पाहि दयालो। पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं पुत्रधनस्वजनात्मगृहादिषु सक्तमतेरतिकिल्बिषमूर्तेः। केनचिदप्यमलेन पुराकृतपुण्यसुपुंजलवेन विभो वै त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम्॥ संसृतिकूपमनल्पमघोरनिदाघनिदानमजस्रमशेषं प्राप्य सुदुःखसहस्रभुजंगविषैकसमाकुलसर्वतनोर्मे। घोरमहाकृपणापदमेव गतस्य हरे पतितस्य भवाब्धौ त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम्॥ संसृतिसिंधुविशालकरालमहाबलकालझषग्रसनार्तं व्यग्रसमग्रधियं कृपणं च महामदनक्रसुचक्रहृतासुम्।…

श्रीखोजीदेवाचार्याष्टकम्

|| श्रीखोजीदेवाचार्याष्टकम् || आनन्दभाष्यसिद्धान्तप्रबोद्धारं तपोनिधिम् । वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥ रामानन्दमताभिज्ञं रामानन्दानुयायिनम् । वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥ मायावादं पराजित्य विशिष्टाद्वैतपोषकम् । वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥ ऊर्ध्वपुण्ड्रादिसंस्कारैर्वैष्णवत्वविधायकम् । वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥ रहस्यानां प्रवक्तारं रहस्यानां प्रदायिनम् । वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥ मुक्तिधामप्रदातारं भक्त्या श्रीरामसीतयोः । वन्दे…

Join WhatsApp Channel Download App