Misc

श्री लक्ष्मी स्तोत्रम् (लोपामुद्रा कृतम्)

Lopamudra Kruta Sri Lakshmi Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री लक्ष्मी स्तोत्रम् (लोपामुद्रा कृतम्) ||

मातर्नमामि कमले पद्माऽऽयतसुलोचने ।
श्रीविष्णुहृत्कमलस्थे विश्वमातर्नमोऽस्तु ते ॥ १ ॥

क्षीरसागरसत्पुत्रि पद्मगर्भाभसुन्दरि ।
लक्ष्मि प्रसीद सततं विश्वमातर्नमोऽस्तु ते ॥ २ ॥

महेन्द्रसदने त्वं श्रीः रुक्मिणी कृष्णभामिनी ।
चन्द्रे ज्योत्स्ना प्रभा सूर्ये विश्वमातर्नमोऽस्तु ते ॥ ३ ॥

स्मितानने जगद्धात्रि शरण्ये सुखवर्धिनि ।
जातवेदसि दहने विश्वमातर्नमोऽस्तु ते ॥ ४ ॥

ब्रह्माणि त्वं सर्जनाऽसि विष्णौ त्वं पोषिका सदा ।
शिवे संहारिका शक्तिर्विश्वमातर्नमोऽस्तु ते ॥ ५ ॥

त्वया शूरो गुणी विज्ञो धन्यो मान्यः कुलीनकः ।
कलाशीलकलापाढ्यो विश्वमातर्नमोऽस्तु ते ॥ ६ ॥

त्वया गजस्तुरङ्गश्च स्त्रैणस्तृणं सरः सदः ।
देवो गृहं कणः श्रेष्ठा विश्वमातर्नमोऽस्तु ते ॥ ७ ॥

त्वया पक्षी पशुः शय्या रत्नं पृथ्वी नरो वधूः ।
श्रेष्ठाः शुद्धा महालक्ष्मि विश्वमातर्नमोऽस्तु ते ॥ ८ ॥

लक्ष्मि श्री कमले पद्मे रमे पद्मोद्भवे सति ।
अब्धिजे विष्णुपत्नि त्वं प्रसीद सततं प्रिये ॥ ९ ॥

इति श्रीलक्ष्मीनारायणसंहितायां लोपामुद्रा कृत श्री लक्ष्मी स्तोत्रम् ।

Found a Mistake or Error? Report it Now

श्री लक्ष्मी स्तोत्रम् (लोपामुद्रा कृतम्) PDF

Download श्री लक्ष्मी स्तोत्रम् (लोपामुद्रा कृतम्) PDF

श्री लक्ष्मी स्तोत्रम् (लोपामुद्रा कृतम्) PDF

Leave a Comment

Join WhatsApp Channel Download App