Download HinduNidhi App
Lakshmi Ji

मीनाक्षी पञ्चरत्नम् स्तोत्रम

Meenakshi Pancharatnam Stotram Sanskrit

Lakshmi JiStotram (स्तोत्र निधि)संस्कृत
Share This

॥मीनाक्षी पञ्चरत्नम् स्तोत्रम॥

उद्यद्भानुसहस्रकॊटिसदृशां कॆयूरहारॊज्ज्वलां
बिम्बॊष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।
विष्णुब्रह्मसुरॆन्द्रसॆवितपदां तत्वस्वरूपां शिवां
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥

मुक्ताहारलसत्किरीटरुचिरां पूर्णॆन्दुवक्त्रप्रभां
शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासॆवितां
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥

श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रॊज्ज्वलां
श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मॊहिनीं
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥

श्रीमत्सुन्दरनायिकां भयहरां ज्ञानाप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावॆणुमृदङ्गवाद्यरसिकां नानाविधामम्बिकां
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥

नानायॊगिमुनीन्द्रहृत्सुवसतिं नानार्थसिद्धिप्रदां
नानापुष्पविराजिताङ्घ्रियुगलां नारायणॆनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download मीनाक्षी पञ्चरत्नम् स्तोत्रम PDF

मीनाक्षी पञ्चरत्नम् स्तोत्रम PDF

Leave a Comment