|| मीनाक्षी पञ्चरत्नम् स्तोत्रम ||
उद्यद्भानुसहस्रकॊटिसदृशां कॆयूरहारॊज्ज्वलां
बिम्बॊष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।
विष्णुब्रह्मसुरॆन्द्रसॆवितपदां तत्वस्वरूपां शिवां
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥
मुक्ताहारलसत्किरीटरुचिरां पूर्णॆन्दुवक्त्रप्रभां
शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासॆवितां
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥
श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रॊज्ज्वलां
श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मॊहिनीं
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥
श्रीमत्सुन्दरनायिकां भयहरां ज्ञानाप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावॆणुमृदङ्गवाद्यरसिकां नानाविधामम्बिकां
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥
नानायॊगिमुनीन्द्रहृत्सुवसतिं नानार्थसिद्धिप्रदां
नानापुष्पविराजिताङ्घ्रियुगलां नारायणॆनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥
- hindiकनकधारा स्तोत्र पाठ हिंदी अर्थ सहित
- sanskritश्री ललिता पञ्चरत्नं स्तोत्र
- hindiधनलक्ष्मी स्तोत्र
- teluguకనకధారాస్తోత్రం
- malayalamകനകധാരാസ്തോത്രം
- kannadaಕನಕಧಾರಾಸ್ತೋತ್ರಂ
- englishShri Lakshmi Nrisimha Karavalambam Stotram
- tamilபத்ர லக்ஷ்மி ஸ்தோத்திரம்
- teluguఅష్టలక్ష్మి స్తోత్రం
- tamilஅஷ்ட லக்ஷ்மி ஸ்தோத்திரம்
- kannadaಭದ್ರ ಲಕ್ಷ್ಮೀ ಸ್ತೋತ್ರಮ್
- teluguదీప లక్ష్మీ స్తోత్రం
- hindiश्री कनकधारा स्तोत्र
- sanskritसिद्धिलक्ष्मीस्तोत्रम्
- sanskritसिद्धिलक्ष्मीस्तोत्रम्
Found a Mistake or Error? Report it Now


