Download HinduNidhi App
Misc

नवग्रह कवच

Navagraha Kavacham Sanskrit

MiscKavach (कवच संग्रह)संस्कृत
Share This

॥नवग्रह कवचम्॥

। ब्रह्मोवाच ।

शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः ।
मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः ।
बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः ।
जठरश्च शनिः पातु जिह्वां मे दितिनन्दनः ।
पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च ।
तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा ।
अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च ।
गुह्यं लिङ्गं सदा पान्तु सर्वे ग्रहाः शुभप्रदाः ।
अणिमादीनि सर्वाणि लभते यः पठेद् ध्रुवम् ॥

एतां रक्षां पठेद्यस्तु भक्त्या स प्रयतः सुधीः ।
स चिरायुः सुखी पुत्री रणे च विजयी भवेत् ॥

अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात् ।
दारार्थी लभते भार्यां सुरूपां सुमनोहराम् ।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ।
जले स्थले चान्तरिक्षे कारागारे विशेषतः ।
यः करे धारयेन्नित्यं भयं तस्य न विद्यते ।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
सर्वपापैः प्रमुच्येत कवचस्य च धारणात् ॥

नारी वामभुजे धृत्वा सुखैश्वर्यसमन्विता ।
काकवन्ध्या जन्मवन्ध्या मृतवत्सा च या भवेत् ।
बहुपत्या जीववत्सा कवचस्य प्रसादतः ॥

।इति ग्रहयामले उत्तरखण्डे नवग्रह कवचं समाप्तम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download नवग्रह कवच PDF

नवग्रह कवच PDF

Leave a Comment