संकट मोचन हनुमान स्तुति PDF हिन्दी
Download PDF of Sankata Mochana Hanuman Stuti Hindi
Hanuman Ji ✦ Stuti (स्तुति संग्रह) ✦ हिन्दी
संकट मोचन हनुमान स्तुति हिन्दी Lyrics
|| संकट मोचन हनुमान स्तुति ||
वीर! त्वमादिथ रविं तमसा त्रिलोकी
व्याप्ता भयं तदिह कोऽपि न हर्त्तुमीशः।
देवैः स्तुतस्तमवमुच्य निवारिता भी-
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
भ्रातुर्भया- दवसदद्रिवरे कपीशः
शापान्मुने रधुवरं प्रतिवीक्षमाणः।
आनीय तं त्वमकरोः प्रभुमार्त्तिहीनं
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
विज्ञापयञ्जनकजा- स्थितिमीशवर्यं
सीताविमार्गण- परस्य कपेर्गणस्य।
प्राणान् ररक्षिथ समुद्रतटस्थितस्य
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
शोकान्वितां जनकजां कृतवानशोकां
मुद्रां समर्प्य रघुनन्दन- नामयुक्ताम्।
हत्वा रिपूनरिपुरं हुतवान् कृशानौ
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
श्रीलक्ष्मणं निहतवान् युधि मेघनादो
द्रोणाचलं त्वमुदपाटय चौषधार्थम्।
आनीय तं विहितवानसुमन्तमाशु
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
युद्धे दशास्यविहिते किल नागपाशै-
र्बद्धां विलोक्य पृतनां मुमुहे खरारिः।
आनीय नागभुजमाशु निवारिता भी-
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
भ्रात्रान्वितं रघुवरं त्वहिलोकमेत्य
देव्यै प्रदातुमनसं त्वहिरावणं त्वाम्।
सैन्यान्वितं निहतवान- निलात्मजं द्राक्
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
वीर! त्वया हि विहितं सुरसर्वकार्यं
मत्सङ्कटं किमिह यत्त्वयका न हार्यम्।
एतद् विचार्य हर सङ्कटमाशु मे त्वं
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसंकट मोचन हनुमान स्तुति
READ
संकट मोचन हनुमान स्तुति
on HinduNidhi Android App