Download HinduNidhi App
Misc

षण्मुख पंचरत्न स्तुति

Shanmukha Pancharatna Stuti Marathi

MiscStuti (स्तुति संग्रह)मराठी
Share This

॥ षण्मुख पंचरत्न स्तुति ॥

स्फुरद्विद्युद्वल्लीवलयितमगोत्संगवसतिं
भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् ।
अवंतं भक्तानामुदयकरमंभोधर इति
प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥

सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या
सिद्धं तस्मिंदेवसेनापतित्वम् ।
इत्थं शक्तिं देवसेनापतित्वं
सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥

पक्षोऽनिर्वचनीयो दक्षिण
इति धियमशेषजनतायाः ।
जनयति बर्ही
दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥

यः पक्षमनिर्वचनं याति
समवलंब्य दृश्यते तेन ।
ब्रह्म परात्परममलं
सुब्रह्मण्याभिधं परं ज्योतिः ॥

षण्मुखं हसन्मुखं सुखांबुराशिखेलनं
सन्मुनींद्रसेव्यमानपादपंकजं सदा ।
मन्मथादिशत्रुवर्गनाशकं कृपांबुधिं
मन्महे मुदा हृदि प्रपन्नकल्पभूरुहम् ॥

इति जगद्गुरु शृंगेरीपीठाधिप श्रीचंद्रशेखरभारती श्रीपादैः विरचिता श्रीषण्मुखपंचरत्नस्तुतिः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download षण्मुख पंचरत्न स्तुति PDF

षण्मुख पंचरत्न स्तुति PDF

Leave a Comment