Download HinduNidhi App
Hanuman Ji

श्री हनुमदष्टकम्

Shri Hanumadashtakam Avdhi

Hanuman JiAshtakam (अष्टकम निधि)हिन्दी
Share This

|| श्री हनुमदष्टकम् ||

वैशाखमास कृष्णायां दशमी मन्दवासरे ।
पूर्वभाद्रासु जाताय मङ्गलं श्री हनूमते ॥

गुरुगौरवपूर्णाय फलापूपप्रियाय च ।
नानामाणिक्यहस्ताय मङ्गलं श्री हनूमते ॥

सुवर्चलाकलत्राय चतुर्भुजधराय च
उष्ट्रारूढाय वीराय मङ्गलं श्री हनूमते ॥

दिव्यमङ्गलदेहाय पीताम्बरधराय च ।
तप्तकाञ्चनवर्णाय मङ्गलं श्री हनूमते ॥

भक्तरक्षणशीलाय जानकीशोकहारिणे ।
ज्वलत्पावकनेत्राय मङ्गलं श्री हनूमते ॥

पम्पातीरविहाराय सौमित्रीप्राणदायिने ।
सृष्टिकारणभूताय मङ्गलं श्री हनूमते ॥

रंभावनविहाराय सुपद्मातटवासिने ।
सर्वलोकैकण्ठाय मङ्गलं श्री हनूमते ॥

पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय मङ्गलं श्री हनूमत ॥

|| इति श्री हनुमदष्टकम् ||

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री हनुमदष्टकम् PDF

श्री हनुमदष्टकम् PDF

Leave a Comment