Download HinduNidhi App
Misc

शुक्र कवचम्

Shukra Kavacham Hindi

MiscKavach (कवच संग्रह)हिन्दी
Share This

॥ शुक्र कवचम् ॥

ध्यानम्

मृणालकुन्देन्दुपयोजसुप्रभं
पीताम्बरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थविधिं महान्तं
ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥

॥ अथ शुक्रकवचम् ॥

शिरो मे भार्गवः पातु
भालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु
श्रोत्रे मे चन्दनद्युतिः ॥

पातु मे नासिकां काव्यो
वदनं दैत्यवन्दितः ।
वचनं चोशनाः पातु
कण्ठं श्रीकण्ठभक्तिमान् ॥

भुजौ तेजोनिधिः पातु
कुक्षिं पातु मनोव्रजः ।
नाभिं भृगुसुतः पातु
मध्यं पातु महीप्रियः ॥

कटिं मे पातु विश्वात्मा
उरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु
जङ्घे ज्ञानवतां वरः ॥

गुल्फौ गुणनिधिः पातु
पातु पादौ वराम्बरः ।
सर्वाण्यङ्गानि मे पातु
स्वर्णमालापरिष्कृतः ॥

फलश्रुतिः

य इदं कवचं दिव्यं
पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा
भार्गवस्य प्रसादतः ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download शुक्र कवचम् PDF

शुक्र कवचम् PDF

Leave a Comment