Misc

श्री शुक्र कवचम्

Shukra Kavacham Sanskrit Lyrics

MiscKavach (कवच संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री शुक्रकवचम् (Shukra Kavacham PDF) ||

॥ ॐ गण गणपतये नमः ॥

ॐ अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य
भारद्वाज ऋषिः । अनुष्टुप्छन्दः ।
श्रीशुक्रो देवता । शुक्रप्रीत्यर्थे जपे विनियोगः ॥

मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थविधिं महान्तं ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥

ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥

पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ॥

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥

कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ॥

गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥

य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥

॥ इति श्री शुक्र कवचं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

श्री शुक्र कवचम् PDF

Download श्री शुक्र कवचम् PDF

श्री शुक्र कवचम् PDF

Leave a Comment

Join WhatsApp Channel Download App