|| श्री भरत कवचम् ||
अगस्त्य उवाच ।
अतः परं भरतस्य कवचं ते वदाम्यहम् ।
सर्वपापहरं पुण्यं सदा श्रीरामभक्तिदम् ॥ १ ॥
कैकेयीतनयं सदा रघुवरन्यस्तेक्षणं श्यामलं
सप्तद्वीपपतेर्विदेहतनयाकान्तस्य वाक्ये रतम् ।
श्रीसीताधवसव्यपार्श्वनिकटे स्थित्वा वरं चामरं
धृत्वा दक्षिणसत्करेण भरतं तं वीजयन्तं भजे ॥ २ ॥
अस्य श्रीभरतकवचमन्त्रस्य अगस्त्य ऋषिः श्रीभरतो देवता अनुष्टुप् छन्दः शङ्ख इति बीजं कैकेयीनन्दन इति शक्तिः भरतखण्डेश्वर इति कीलकं रामानुज इत्यस्त्रं सप्तद्वीपेश्वरदास इति कवचं रामांशज इति मन्त्रः श्रीभरतप्रीत्यर्थं सकलमनोरथसिद्ध्यर्थं जपे विनियोगः ॥
अथ करन्यासः ।
ओं भरताय अङ्गुष्ठाभ्यां नमः ।
ओं शङ्खाय तर्जनीभ्यां नमः ।
ओं कैकेयीनन्दनाय मध्यमाभ्यां नमः ।
ओं भरतखण्डेश्वराय अनामिकाभ्यां नमः ।
ओं रामानुजाय कनिष्ठिकाभ्यां नमः ।
ओं सप्तद्वीपेश्वराय करतलकरपृष्ठाभ्यां नमः ।
अथ अङ्गन्यासः ।
ओं भरताय हृदयाय नमः ।
ओं शङ्खाय शिरसे स्वाहा ।
ओं कैकेयीनन्दनाय शिखायै वषट् ।
ओं भरतखण्डेश्वराय कवचाय हुम् ।
ओं रामानुजाय नेत्रत्रयाय वौषट् ।
ओं सप्तद्वीपेश्वराय अस्त्राय फट् ।
ओं रामांशजाय चेति दिग्बन्धः ।
अथ ध्यानम् ।
रामचन्द्रसव्यपार्श्वे स्थितं केकयजासुतम् ।
रामाय चामरेणैव वीजयन्तं मनोरमम् ॥ १ ॥
रत्नकुण्डलकेयूरकङ्कणादिसुभूषितम् ।
पीताम्बरपरीधानं वनमालाविराजितम् ॥ २ ॥
माण्डवीधौतचरणं रशनानूपुरान्वितम् ।
नीलोत्पलदलश्यामं द्विजराजसमाननम् ॥ ३ ॥
आजानुबाहुं भरतखण्डस्य प्रतिपालकम् ।
रामानुजं स्मितास्यं च शत्रुघ्नपरिवन्दितम् ॥ ४ ॥
रामन्यस्तेक्षणं सौम्यं विद्युत्पुञ्जसमप्रभम् ।
रामभक्तं महावीरं वन्दे तं भरतं शुभम् ॥ ५ ॥
एवं ध्यात्वा तु भरतं रामपादेक्षणं हृदि ।
कवचं पठनीयं हि भरतस्येदमुत्तमम् ॥ ६ ॥
अथ कवचम् ।
पूर्वतो भरतः पातु दक्षिणे कैकयीसुतः ।
नृपात्मजः प्रतीच्यां हि पातूदीच्यां रघूत्तमः ॥ ७ ॥
अधः पातु श्यामलाङ्गश्चोर्ध्वं दशरथात्मजः ।
मध्ये भरतवर्षेशः सर्वतः सूर्यवंशजः ॥ ८ ॥
शिरस्तक्षपिता पातु भालं पातु हरिप्रियः ।
भ्रुवोर्मध्यं जनकजावाक्यैकतत्परोऽवतु ॥ ९ ॥
पातु जनकजामाता मम नेत्रे सदात्र हि ।
कपोलौ माण्डवीकान्तः कर्णमूले स्मिताननः ॥ १० ॥
नासाग्रं मे सदा पातु कैकेयीतोषवर्धनः ।
उदाराङ्गो मुखं पातु वाणीं पातु जटाधरः ॥ ११ ॥
पातु पुष्करतातो मे जिह्वां दन्तान् प्रभामयः ।
चुबुकं वल्कलधरः कण्ठं पातु वराननः ॥ १२ ॥
स्कन्धौ पातु जितारातिर्भुजौ शत्रुघ्नवन्दितः ।
करौ कवचधारी च नखान् खड्गधरोऽवतु ॥ १३ ॥
कुक्षी रामानुजः पातु वक्षः श्रीरामवल्लभः ।
पार्श्वे राघवपार्श्वस्थः पातु पृष्ठं सुभाषणः ॥ १४ ॥
जठरं च धनुर्धारी नाभिं शरकरोऽवतु ।
कटिं पद्मेक्षणः पातु गुह्यं रामैकमानसः ॥ १५ ॥
राममित्रं पातु लिङ्गमूरू श्रीरामसेवकः ।
नन्दिग्रामस्थितः पातु जानुनी मम सर्वदा ॥ १६ ॥
श्रीरामपादुकाधारी पातु जङ्घे सदा मम ।
गुल्फौ श्रीरामबन्धुश्च पादौ पातु सुरार्चितः ॥ १७ ॥
रामाज्ञापालकः पातु ममाङ्गान्यत्र सर्वदा ।
मम पादाङ्गुलीः पातु रघुवंशसुभूषणः ॥ १८ ॥
रोमाणि पातु मे रम्यः पातु रात्रौ सुधीर्मम ।
तूणीरधारी दिवसं दिक्पातु मम सर्वदा ॥ १९ ॥
सर्वकालेषु मां पातु पाञ्चजन्यः सदा भुवि ।
एवं श्रीभरतस्येदं सुतीक्ष्ण कवचं शुभम् ॥ २० ॥
मया प्रोक्तं तवाग्रे हि महामङ्गलकारकम् ।
स्तोत्राणामुत्तमं स्तोत्रमिदं ज्ञेयं सुपुण्यदम् ॥ २१ ॥
पठनीयं सदा भक्त्या रामचन्द्रस्य हर्षदम् ।
पठित्वा भरतस्येदं कवचं रघुनन्दनः ॥ २२ ॥
यथा याति परं तोषं तथा स्वकवचेन न ।
तस्मादेतत्सदा जप्यं कवचानामनुत्तमम् ॥ २३ ॥
अस्यात्र पठनान्मर्त्यः सर्वान्कामानवाप्नुयात् ।
विद्याकामो लभेद्विद्यां पुत्रकामो लभेत्सुतम् ॥ २४ ॥
पत्नीकामो लभेत् पत्नीं धनार्थी धनमाप्नुयात् ।
यद्यन्मनोऽभिलषितं तत्तत्कवचपाठतः ॥ २५ ॥
लभ्यते मानवैरत्र सत्यं सत्यं वदाम्यहम् ।
तस्मात्सदा जपनीयं रामोपासकमानवैः ॥ २६ ॥
इति श्रीमदानन्दरामायणे सुतीक्ष्णागस्त्यसंवादे श्रीभरतकवचम् ।
Found a Mistake or Error? Report it Now