Download HinduNidhi App
Misc

श्री चन्द्रमौलीश्वर वर्णमाला स्तोत्रम्

Sri Chandramoulishwara Varnamala Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री चन्द्रमौलीश्वर वर्णमाला स्तोत्रम् ||

श्रीशात्मभूमुख्यसुरार्चिताङ्घ्रिं
श्रीकण्ठशर्वादिपदाभिधेयम् ।
श्रीशङ्कराचार्यहृदब्जवासं
श्रीचन्द्रमौलीशमहं नमामि ॥ १

चण्डांशुशीतांशुकृशानुनेत्रं
चण्डीशमुख्यप्रमथेड्यपादम् ।
षडास्यनागास्यसुशोभिपार्श्वं
श्रीचन्द्रमौलीशमहं नमामि ॥ २

द्रव्यादिसृष्टिस्थितिनाशहेतुं
रव्यादितेजांस्यपि भासयन्तम् ।
पव्यायुधादिस्तुतवैभवं तं
श्रीचन्द्रमौलीशमहं नमामि ॥ ३

मौलिस्फुरज्जह्नुसुतासितांशुं
व्यालेशसंवेष्टितपाणिपादम् ।
शूलादिनानायुधशोभमानं
श्रीचन्द्रमौलीशमहं नमामि ॥ ४

लीलाविनिर्धूतकृतान्तदर्पं
शैलात्मजासंश्रितवामभागम् ।
शूलाग्रनिर्भिन्नसुरारिसङ्घं
श्रीचन्द्रमौलीशमहं नमामि ॥ ५

शतैः श्रुतीनां परिगीयमानं
यतैर्मुनीन्द्रैः परिसेव्यमानम् ।
नतैः सुरेन्द्रैरभिपूज्यमानं
श्रीचन्द्रमौलीशमहं नमामि ॥ ६

मत्तेभकृत्या परिशोभिताङ्गं
चित्ते यतीनां सततं वसन्तम् ।
वित्तेशमुख्यैः परिवेष्टितं तं
श्रीचन्द्रमौलीशमहं नमामि ॥ ७

हंसोत्तमैश्चेतसि चिन्त्यमानं
संसारपाथोनिधिकर्णधारम् ।
तं सामगानप्रियमष्टमूर्तिं
श्रीचन्द्रमौलीशमहं नमामि ॥ ८

नताघहं नित्यचिदेकरूपं
सतां गतिं सत्यसुखस्वरूपम् ।
हतान्धकं हृद्यपराक्रमं तं
श्रीचन्द्रमौलीशमहं नमामि ॥ ९

मायातिगं वीतभयं विनिद्रं
मोहान्तकं मृत्युहरं महेशम् ।
फालानलं नीलगलं कृपालुं
श्रीचन्द्रमौलीशमहं नमामि ॥ १०

मित्रं हि यस्याखिलशेवधीशः
पुत्रश्च विघ्नौघविभेददक्षः ।
पात्रं कृपायाश्च समस्तलोकः
श्रीचन्द्रमौलीशमहं नमामि ॥ ११

इति श्री चन्द्रमौलीश्वर वर्णमाला स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री चन्द्रमौलीश्वर वर्णमाला स्तोत्रम् PDF

श्री चन्द्रमौलीश्वर वर्णमाला स्तोत्रम् PDF

Leave a Comment