Download HinduNidhi App
Misc

श्री दत्त अपराध क्षमापण स्तोत्रम्

Sri Datta Aparadha Kshamapana Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री दत्त अपराध क्षमापण स्तोत्रम् ||

दत्तात्रेयं त्वां नमामि प्रसीद
त्वं सर्वात्मा सर्वकर्ता न वेद ।
कोऽप्यन्तं ते सर्वदेवाधिदेव
ज्ञाताज्ञातान्मेऽपराधान् क्षमस्व ॥ १ ॥

त्वदुद्भवत्वात्त्वदधीनधीत्वा-
-त्त्वमेव मे वन्द्य उपास्य आत्मन् ।
अथापि मौढ्यात् स्मरणं न ते मे
कृतं क्षमस्व प्रियकृन्महात्मन् ॥ २ ॥

भोगापवर्गप्रदमार्तबन्धुं
कारुण्यसिन्धुं परिहाय बन्धुम् ।
हिताय चान्यं परिमार्गयन्ति
हा मादृशो नष्टदृशो विमूढाः ॥ ३ ॥

न मत्समो यद्यपि पापकर्ता
न त्वत्समोऽथापि हि पापहर्ता ।
न मत्समोऽन्यो दयनीय आर्य
न त्वत्समः क्वापि दयालुवर्यः ॥ ४ ॥

अनाथनाथोऽसि सुदीनबन्धो
श्रीशाऽनुकम्पामृतपूर्णसिन्धो ।
त्वत्पादभक्तिं तव दासदास्यं
त्वदीयमन्त्रार्थदृढैकनिष्ठाम् ॥ ५ ॥

गुरुस्मृतिं निर्मलबुद्धिमाधि-
-व्याधिक्षयं मे विजयं च देहि ।
इष्टार्थसिद्धिं वरलोकवश्यं
धनान्नवृद्धिं वरगोसमृद्धिम् ॥ ६ ॥

पुत्रादिलब्धिं म उदारतां च
देहीश मे चास्त्वभय हि सर्वतः ।
ब्रह्माग्निभूम्यो नम ओषधीभ्यो
वाचे नमो वाक्पतये च विष्णवे ॥ ७ ॥

शान्ताऽस्तु भूर्नः शिवमन्तरिक्षं
द्यौश्चाऽभयं नोऽस्तु दिशः शिवाश्च ।
आपश्च विद्युत्परिपान्तु देवाः
शं सर्वतो मेऽभयमस्तु शान्तिः ॥ ८ ॥

इति श्रीमद्वासुदेवानन्दसरस्वती विरचितं श्री दत्तापराध क्षमापण स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री दत्त अपराध क्षमापण स्तोत्रम् PDF

श्री दत्त अपराध क्षमापण स्तोत्रम् PDF

Leave a Comment