|| श्री हयग्रीव स्तोत्रम् ||
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिं
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १ ॥
स्वतस्सिद्धं शुद्धस्फटिकमणिभू भृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनं
अनन्तैस्त्रय्यन्तैरनुविहित हेषाहलहलं
हताशेषावद्यं हयवदनमीडेमहिमहः ॥ २ ॥
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः
कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं
हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥ ३ ॥
प्राची सन्ध्या काचिदन्तर्निशाय़ाः
प्रज्ञादृष्टे रञ्जनश्रीरपूर्वा
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥ ४ ॥
विशुद्धविज्ञानघनस्वरूपं
विज्ञानविश्राणनबद्धदीक्षं
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवमहं प्रपद्ये ॥ ५ ॥
अपौरुषेयैरपि वाक्प्रपञ्चैः
अद्यापि ते भूतिमदृष्टपारां
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥ ६ ॥
दाक्षिण्यरम्या गिरिशस्य मूर्तिः-
देवी सरोजासनधर्मपत्नी
व्यासादयोऽपि व्यपदेश्यवाचः
स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ ७ ॥
मन्दोऽभविष्यन्नियतं विरिञ्चः
वाचां निधेर्वाञ्छितभागधेयः
दैत्यापनीतान् दययैन भूयोऽपि
अध्यापयिष्यो निगमान्नचेत्त्वम् ॥ ८ ॥
वितर्कडोलां व्यवधूय सत्त्वे
बृहस्पतिं वर्तयसे यतस्त्वं
तेनैव देव त्रिदेशेश्वराणा
अस्पृष्टडोलायितमाधिराज्यम् ॥ ९ ॥
अग्नौ समिद्धार्चिषि सप्ततन्तोः
आतस्थिवान्मन्त्रमयं शरीरं
अखण्डसारैर्हविषां प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥ १० ॥
यन्मूल मीदृक्प्रतिभातत्त्वं
या मूलमाम्नायमहाद्रुमाणां
तत्त्वेन जानन्ति विशुद्धसत्त्वाः
त्वामक्षरामक्षरमातृकां त्वाम् ॥ ११ ॥
अव्याकृताद्व्याकृतवानसि त्वं
नामानि रूपाणि च यानि पूर्वं
शंसन्ति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ॥ १२ ॥
मुग्धेन्दुनिष्यन्दविलोभनीयां
मूर्तिं तवानन्दसुधाप्रसूतिं
विपश्चितश्चेतसि भावयन्ते
वेलामुदारामिव दुग्ध सिन्धोः ॥ १३ ॥
मनोगतं पश्यति यस्सदा त्वां
मनीषिणां मानसराजहंसं
स्वयम्पुरोभावविवादभाजः
किङ्कुर्वते तस्य गिरो यथार्हम् ॥ १४ ॥
अपि क्षणार्धं कलयन्ति ये त्वां
आप्लावयन्तं विशदैर्मयूखैः
वाचां प्रवाहैरनिवारितैस्ते
मन्दाकिनीं मन्दयितुं क्षमन्ते ॥ १५ ॥
स्वामिन्भवद्द्यानसुधाभिषेकात्
वहन्ति धन्याः पुलकानुबन्दं
अलक्षिते क्वापि निरूढ मूलं
अङ्ग्वेष्वि वानन्दथुमङ्कुरन्तम् ॥ १६ ॥
स्वामिन्प्रतीचा हृदयेन धन्याः
त्वद्ध्यानचन्द्रोदयवर्धमानं
अमान्तमानन्दपयोधिमन्तः
पयोभि रक्ष्णां परिवाहयन्ति ॥ १७ ॥
स्वैरानुभावास् त्वदधीनभावाः
समृद्धवीर्यास्त्वदनुग्रहेण
विपश्चितोनाथ तरन्ति मायां
वैहारिकीं मोहनपिञ्छिकां ते ॥ १८ ॥
प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिश्श्रेयससम्पदो मे
समेधिषीरं स्तव पादपद्मे
सङ्कल्पचिन्तामणयः प्रणामाः ॥ १९ ॥
विलुप्तमूर्धन्यलिपिक्रमाणा
सुरेन्द्रचूडापदलालितानां
त्वदङ्घ्रि राजीवरजःकणानां
भूयान्प्रसादो मयि नाथ भूयात् ॥ २० ॥
परिस्फुरन्नूपुरचित्रभानु –
प्रकाशनिर्धूततमोनुषङ्गा
पदद्वयीं ते परिचिन्महेऽन्तः
प्रबोधराजीवविभातसन्ध्याम् ॥ २१ ॥
त्वत्किङ्करालङ्करणोचितानां
त्वयैव कल्पान्तरपालितानां
मञ्जुप्रणादं मणिनूपुरं ते
मञ्जूषिकां वेदगिरां प्रतीमः ॥ २२ ॥
सञ्चिन्तयामि प्रतिभादशास्थान्
सन्धुक्षयन्तं समयप्रदीपान्
विज्ञानकल्पद्रुमपल्लवाभं
व्याख्यानमुद्रामधुरं करं ते ॥ २३ ॥
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयं
ज्ञानामृतोदञ्चनलम्पटानां
लीलाघटीयन्त्रमिवाऽऽश्रितानाम् ॥ २४ ॥
प्रबोधसिन्धोररुणैः प्रकाशैः
प्रवालसङ्घातमिवोद्वहन्तं
विभावये देव स पुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥ २५ ॥
तमां सिभित्त्वाविशदैर्मयूखैः
सम्प्रीणयन्तं विदुषश्चकोरान्
निशामये त्वां नवपुण्डरीके
शरद्घनेचन्द्रमिव स्फुरन्तम् ॥ २६ ॥
दिशन्तु मे देव सदा त्वदीयाः
दयातरङ्गानुचराः कटाक्षाः
श्रोत्रेषु पुंसाममृतङ्क्षरन्तीं
सरस्वतीं सम्श्रितकामधेनुम् ॥ २७ ॥
विशेषवित्पारिषदेषु नाथ
विदग्धगोष्ठी समराङ्गणेषु
जिगीषतो मे कवितार्किकेन्द्रान्
जिह्वाग्रसिंहासनमभ्युपेयाः ॥ २८ ॥
त्वां चिन्तयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना
स्वामिन्समाजेषु समेधिषीय
स्वच्छन्दवादाहवबद्धशूरः ॥ २९ ॥
नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः
ध्रुवं तवाऽनाध परिग्रहायाः
नव नवं पात्रमहं दयायाः ॥ ३० ॥
अकम्पनीयान्यपनीतिभेदैः
अलङ्कृषीरन् हृदयं मदीयम्
शङ्का कलङ्का पगमोज्ज्वलानि
तत्त्वानि सम्यञ्चि तव प्रसादात् ॥ ३१ ॥
व्याख्यामुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे
भिभ्रद्भिन्न स्फटिकरुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरम्शुभिः प्लावयन्मां
आविर्भूयादनघमहिमामानसे वागधीशः ॥ ३२ ॥
वागर्थसिद्धिहेतोःपठत हयग्रीवसंस्तुतिं भक्त्या
कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेताम् ॥ ३३ ॥
Found a Mistake or Error? Report it Now