
श्री हेरम्ब स्तुति PDF संस्कृत
Download PDF of Sri Heramba Stuthi Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्री हेरम्ब स्तुति संस्कृत Lyrics
|| श्री हेरम्ब स्तुति (Heramba Stuti PDF) ||
नरनारायणावूचतुः ।
नमस्ते गणनाथाय भक्तसंरक्षकाय ते।
भक्तेभ्यो भक्तिदात्रे वै हेरम्बाय नमो नमः॥ १ ॥
अनाथानां विशेषेण नाथाय गजवक्त्रिणे।
चतुर्बाहुधरायैव लम्बोदर नमोऽस्तु ते॥ २ ॥
ढुण्ढये सर्वसाराय नानाभेदप्रचारिणे।
भेदहीनाय देवाय नमश्चिन्तामणे नमः॥ ३ ॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिस्वरूपिणे।
योगाय योगनाथाय शूर्पकर्णाय ते नमः॥ ४ ॥
सगुणाय नमस्तुभ्यं निर्गुणाय परात्मने।
सर्वपूज्याय सर्वाय देवदेवाय ते नमः॥ ५ ॥
ब्रह्मणां ब्रह्मणे तुभ्यं सदा शान्तिप्रदायक।
सुखशान्तिधरायैव नाभिशेषाय ते नमः॥ ६ ॥
पूर्णाय पूर्णनाथाय पूर्णानन्दाय ते नमः।
योगमायाप्रचालाय खेलकाय नमो नमः॥ ७ ॥
अनादये नमस्तुभ्यमादिमध्यान्तमूर्तये।
स्रष्ट्रे पात्रे च संहर्त्रे सिंहवाहाय ते नमः॥ ८ ॥
गताभिमानिनां नाथस्त्वमेवात्र न संशयः।
तेन हेरम्बनामाऽसि विनायक नमोऽस्तु ते॥ ९ ॥
किं स्तुवस्त्वां गणाधीश योगाभेदमयं परम्।
अतस्त्वां प्रणमावो वै तेन तुष्टो भव प्रभो॥ १० ॥
एवमुक्त्वा नतौ तत्र नरनारायणावृषी।
तावुत्थाप्य गणेशान उवाच घननिस्वनः॥ ११ ॥
हेरम्ब उवाच ।
वरं चित्तेप्सितं दास्यामि ब्रूतं भक्तियन्त्रितः।
महाभागावादिमुनी योगमार्गप्रकाशकौ॥ १२ ॥
भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत्।
पठते शृण्वते चैव भुक्तिमुक्तिप्रदं तथा॥ १३ ॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः।
मम भक्तिप्रदं चैव भविष्यति सुसिद्धिदम्॥ १४ ॥
इति श्रीमन्मुद्गले महापुराणे तृतीयेखण्डे नरनारायणकृता श्री हेरम्ब स्तुतिः ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री हेरम्ब स्तुति

READ
श्री हेरम्ब स्तुति
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
