Download HinduNidhi App
Misc

श्री जानकी जीवनाष्टकम्

Sri Janaki Jeevana Ashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

|| श्री जानकी जीवनाष्टकम् ||

आलोक्य यस्यातिललामलीलां
सद्भाग्यभाजौ पितरौ कृतार्थौ ।
तमर्भकं दर्पणदर्पचौरं
श्रीजानकीजीवनमानतोऽस्मि ॥ १ ॥

श्रुत्वैव यो भूपतिमात्तवाचं
वनं गतस्तेन न नोदितोऽपि ।
तं लीलयाह्लादविषादशून्यं
श्रीजानकीजीवनमानतोऽस्मि ॥ २ ॥

जटायुषो दीनदशां विलोक्य
प्रियावियोगप्रभवं च शोकम् ।
यो वै विसस्मार तमार्द्रचित्तं
श्रीजानकीजीवनमानतोऽस्मि ॥ ३ ॥

यो वालिना ध्वस्तबलं सुकण्ठं
न्ययोजयद्राजपदे कपीनाम् ।
तं स्वीयसन्तापसुतप्तचित्तं
श्रीजानकीजीवनमानतोऽस्मि ॥ ४ ॥

यद्ध्याननिर्धूत वियोगवह्नि-
-र्विदेहबाला विबुधारिवन्याम् ।
प्राणान्दधे प्राणमयं प्रभुं तं
श्रीजानकीजीवनमानतोऽस्मि ॥ ५ ॥

यस्यातिवीर्याम्बुधिवीचिराजौ
वंश्यैरहो वैश्रवणो विलीनः ।
तं वैरिविध्वंसनशीललीलं
श्रीजानकीजीवनमानतोऽस्मि ॥ ६ ॥

यद्रूपराकेशमयूखमाला-
-नुरञ्जिता राजरमापि रेजे ।
तं राघवेन्द्रं विबुधेन्द्रवन्द्यं
श्रीजानकीजीवनमानतोऽस्मि ॥ ७ ॥

एवं कृता येन विचित्रलीला
मायामनुष्येण नृपच्छलेन ।
तं वै मरालं मुनिमानसानां
श्रीजानकीजीवनमानतोऽस्मि ॥ ८ ॥

इति श्री जानकीजीवनाष्टकम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री जानकी जीवनाष्टकम् PDF

श्री जानकी जीवनाष्टकम् PDF

Leave a Comment