Download HinduNidhi App
Misc

श्री लक्ष्मी द्वादशनाम स्तोत्रम्

Sri Lakshmi Dwadasa Nama Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री लक्ष्मी द्वादशनाम स्तोत्रम् ||

श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा ।
तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी ॥ १ ॥

पञ्चमं विष्णुपत्नी च षष्ठं स्यात् वैष्णवी तथा ।
सप्तमं तु वरारोहा अष्टमं हरिवल्लभा ॥ २ ॥

नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका ।
एकादशं तु लक्ष्मीः स्यात् द्वादशं श्रीहरिप्रिया ॥ ३ ॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
आयुरारोग्यमैश्वर्यं तस्य पुण्यफलप्रदम् ॥ ४ ॥

इति श्री लक्ष्मी द्वादशनाम स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री लक्ष्मी द्वादशनाम स्तोत्रम् PDF

श्री लक्ष्मी द्वादशनाम स्तोत्रम् PDF

Leave a Comment