Download HinduNidhi App
Misc

श्री महालक्ष्मी कवचम् १

Sri Mahalakshmi Kavacham 1 Sanskrit

MiscKavach (कवच संग्रह)संस्कृत
Share This

|| श्री महालक्ष्मी कवचम् १ ||

इन्द्र उवाच ।
समस्तकवचानां तु तेजस्वि कवचोत्तमम् ।
आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते ॥ १ ॥

श्रीगुरुरुवाच ।
महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः ।
चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् ॥ २ ॥

ब्रह्मोवाच ।
शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा ।
चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा ॥ ३ ॥

घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी ।
मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी ॥ ४ ॥

स्कन्धौ मे जानकी पातु भुजौ भार्गवनन्दिनी ।
बाहू द्वौ द्रविणी पातु करौ हरिवराङ्गना ॥ ५ ॥

वक्षः पातु च श्रीर्देवी हृदयं हरिसुन्दरी ।
कुक्षिं च वैष्णवी पातु नाभिं भुवनमातृका ॥ ६ ॥

कटिं च पातु वाराही सक्थिनी देवदेवता ।
ऊरू नारायणी पातु जानुनी चन्द्रसोदरी ॥ ७ ॥

इन्दिरा पातु जङ्घे मे पादौ भक्तनमस्कृता ।
नखान् तेजस्विनी पातु सर्वाङ्गं करुणामयी ॥ ८ ॥

ब्रह्मणा लोकरक्षार्थं निर्मितं कवचं श्रियः ।
ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये ॥ ९ ॥

कवचेनावृताङ्गानां जनानां जयदा सदा ।
मातेव सर्वसुखदा भव त्वममरेश्वरी ॥ १० ॥

भूयः सिद्धिमवाप्नोति पूर्वोक्तं ब्रह्मणा स्वयम् ।
लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन् ॥ ११ ॥

नामत्रयमिदं जप्त्वा स याति परमां श्रियम् ।
यः पठेत्स च धर्मात्मा सर्वान् कामानवाप्नुयात् ॥ १२ ॥

इति श्रीब्रह्मपुराणे इन्द्रोपदिष्टं श्री महालक्ष्मी कवचम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री महालक्ष्मी कवचम् १ PDF

श्री महालक्ष्मी कवचम् १ PDF

Leave a Comment