Misc

श्री मनसा देवि स्तोत्रम् (धन्वन्तरि कृतम्)

Sri Manasa Devi Stotram Dhanvantari Krutam Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री मनसा देवि स्तोत्रम् (धन्वन्तरि कृतम्) ||

ध्यानम् ।
चारुचम्पकवर्णाभां सर्वाङ्गसुमनोहराम् ।
ईषद्धास्यप्रसन्नास्यां शोभितां सूक्ष्मवाससा ॥ १ ॥

सुचारुकबरीशोभां रत्नाभरणभूषिताम् ।
सर्वाभयप्रदां देवीं भक्तानुग्रहकारकाम् ॥ २ ॥

सर्वविद्याप्रदां शान्तां सर्वविद्याविशारदाम् ।
नागेन्द्रवाहिनीं देवीं भजे नागेश्वरीं पराम् ॥ ३ ॥

धन्वन्तरिरुवाच ।
नमः सिद्धिस्वरूपायै सिद्धिदायै नमो नमः ।
नमः कश्यपकन्यायै वरदायै नमो नमः ॥ ४ ॥

नमः शङ्करकन्यायै शङ्करायै नमो नमः ।
नमस्ते नागवाहिन्यै नागेश्वर्यै नमो नमः ॥ ५ ॥

नम आस्तीकजनन्यै जनन्यै जगतां मम ।
नमो जगत्कारणायै जरत्कारुस्त्रियै नमः ॥ ६ ॥

नमो नागभगिन्यै च योगिन्यै च नमो नमः ।
नमश्चिरं तपस्विन्यै सुखदायै नमो नमः ॥ ७ ॥

नमस्तपस्यारूपायै फलदायै नमो नमः ।
सुशीलायै च साध्व्यै च शान्तायै च नमो नमः ॥ ८ ॥

इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।
वंशजानां नागभयं नास्ति तस्य न संशयः ॥ ९ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे एकपञ्चाशत्तमोऽध्यायः धन्वन्तरिकृत श्री मनसादेवि स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री मनसा देवि स्तोत्रम् (धन्वन्तरि कृतम्) PDF

Download श्री मनसा देवि स्तोत्रम् (धन्वन्तरि कृतम्) PDF

श्री मनसा देवि स्तोत्रम् (धन्वन्तरि कृतम्) PDF

Leave a Comment

Join WhatsApp Channel Download App