|| श्री मातङ्गिनी कवचम् (त्रैलोक्यमङ्गल कवचम्) ||
श्रीदेव्युवाच ।
साधु साधु महादेव कथयस्व सुरेश्वर ।
मातङ्गीकवचं दिव्यं सर्वसिद्धिकरं नृणाम् ॥ १ ॥
श्री ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि मातङ्गीकवचं शुभम् ।
गोपनीयं महादेवि मौनी जापं समाचरेत् ॥ २ ॥
अस्य श्रीमातङ्गीकवचस्य दक्षिणामूर्तिरृषिः विराट् छन्दः मातङ्गी देवता चतुर्वर्गसिद्ध्यर्थे विनियोगः ॥
ओं शिरो मातङ्गिनी पातु भुवनेशी तु चक्षुषी ।
तोडला कर्णयुगलं त्रिपुरा वदनं मम ॥ ३ ॥
पातु कण्ठे महामाया हृदि माहेश्वरी तथा ।
त्रिपुष्पा पार्श्वयोः पातु गुदे कामेश्वरी मम ॥ ४ ॥
ऊरुद्वये तथा चण्डी जङ्घयोश्च हरप्रिया ।
महामाया पादयुग्मे सर्वाङ्गेषु कुलेश्वरी ॥ ५ ॥
अङ्गं प्रत्यङ्गकं चैव सदा रक्षतु वैष्णवी ।
ब्रह्मरन्ध्रे सदा रक्षेन्मातङ्गी नाम संस्थिता ॥ ६ ॥
रक्षेन्नित्यं ललाटे सा महापिशाचिनीति च ।
नेत्रायोः सुमुखी रक्षेद्देवी रक्षतु नासिकाम् ॥ ७ ॥
महापिशाचिनी पायान्मुखे रक्षतु सर्वदा ।
लज्जा रक्षतु मां दन्तान् चोष्ठौ सम्मार्जनीकरी ॥ ८ ॥
चिबुके कण्ठदेशे तु ठकारत्रितयं पुनः ।
सविसर्गं महादेवि हृदयं पातु सर्वदा ॥ ९ ॥
नाभिं रक्षतु मां लोला कालिकावतु लोचने ।
उदरे पातु चामुण्डा लिङ्गे कात्यायनी तथा ॥ १० ॥
उग्रतारा गुदे पातु पादौ रक्षतु चाम्बिका ।
भुजौ रक्षतु शर्वाणी हृदयं चण्डभूषणा ॥ ११ ॥
जिह्वायां मातृका रक्षेत्पूर्वे रक्षतु पुष्टिका ।
विजया दक्षिणे पातु मेधा रक्षतु वारुणे ॥ १२ ॥
नैरृत्यां सुदया रक्षेद्वायव्यां पातु लक्ष्मणा ।
ऐशान्यां रक्षेन्मां देवी मातङ्गी शुभकारिणी ॥ १३ ॥
रक्षेत्सुरेशी चाग्नेय्यां बगला पातु चोत्तरे ।
ऊर्ध्वं पातु महादेवी देवानां हितकारिणी ॥ १४ ॥
पाताले पातु मा नित्यं वशिनी विश्वरूपिणी ।
प्रणवं च तमोमाया कामबीजं च कूर्चकम् ॥ १५ ॥
मातङ्गिनी ङेयुतास्त्रं वह्निजायावधिर्मनुः ।
सार्धैकादशवर्णा सा सर्वत्र पातु मां सदा ॥ १६ ॥
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ।
त्रैलोक्यमङ्गलं नाम कवचं देवदुर्लभम् ॥ १७ ॥
य इदं प्रपठेन्नित्यं जायते सम्पदालयम् ।
परमैश्वर्यमतुलं प्राप्नुयान्नात्र संशयः ॥ १८ ॥
गुरुमभ्यर्च्य विधिवत्कवचं प्रपठेद्यदि ।
ऐश्वर्यं सुकवित्वं च वाक्सिद्धिं लभते ध्रुवम् ॥ १९ ॥
नित्यं तस्य तु मातङ्गी महिला मङ्गलं चरेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुरसत्तमाः ॥ २० ॥
ब्रह्मराक्षसवेताला ग्रहाद्या भूतजातयः ।
तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवन्ति ते ॥ २१ ॥
कवचं धारयेद्यस्तु सर्वसिद्धिं लभेद्ध्रुवम् ।
राजानोऽपि च दासाः स्युः षट्कर्माणि च साधयेत् ॥ २२ ॥
सिद्धो भवति सर्वत्र किमन्यैर्बहुभाषितैः ।
इदं कवचमज्ञात्वा मातङ्गीं यो भजेन्नरः ॥ २३ ॥
अल्पायुर्निर्धनो मूर्खो भवत्येव न संशयः ।
गुरौ भक्तिः सदा कार्या कवचे च दृढा मतिः ॥ २४ ॥
तस्मै मातङ्गिनी देवी सर्वसिद्धिं प्रयच्छति ॥ २५ ॥
इति नन्द्यावर्ते उत्तरखण्डे मातङ्गिनी कवचम् ॥
Found a Mistake or Error? Report it Now