Download HinduNidhi App
Misc

श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम्

Sri Mattapalli Narasimha Mangalashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

|| श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम् ||

मट्टपल्लिनिवासाय मधुरानन्दरूपिणे ।
महायज्ञस्वरूपाय श्रीनृसिंहाय मङ्गलम् ॥ १ ॥

कृष्णवेणीतटस्थाय सर्वाभीष्टप्रदायिने ।
प्रह्लादप्रियरूपाय श्रीनृसिंहाय मङ्गलम् ॥ २ ॥

कर्तस्थिताय धीराय गम्भीराय महात्मने ।
सर्वारिष्टविनाशाय श्रीनृसिंहाय मङ्गलम् ॥ ३ ॥

ऋग्यजुः सामरूपाय मन्त्रारूढाय धीमते ।
श्रितानां कल्पवृक्षाय श्रीनृसिंहाय मङ्गलम् ॥ ४ ॥

गुहाशयाय गुह्याय गुह्यविद्यास्वरूपिणे ।
गुहरान्ते विहाराय श्रीनृसिंहाय मङ्गलम् ॥ ५ ॥

श्रीपल्यद्रिमध्यस्थाय निधये मधुराय च ।
सुखप्रदाय देवाय श्रीनृसिंहाय मङ्गलम् ॥ ६ ॥

तापनीयरहस्याय तापत्रयविनाशिने ।
नतानां पारिजाताय श्रीनृसिंहाय मङ्गलम् ॥ ७ ॥

राज्यलक्ष्म्या समेताय रागद्वेषविनाशिने
मट्टपल्लिनिवासाय श्रीनृसिंहाय मङ्गलम् ॥ ८ ॥

मुक्कूर् नृसिंहदासेन प्रोक्तं मङ्गलमद्भुतम् ।
यः पठेच्छ्रद्धया भक्त्या सर्वपापैर्विमुच्यते ॥ ९ ॥

इति श्रीमुक्कूर् लक्ष्मीनृसिंहस्वामिना अनुगृहीतं श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम् PDF

श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम् PDF

Leave a Comment