Misc

श्री नृसिंह अष्टोत्तरशतनामावली

Sri Narasimha Ashtottara Satanamavali Sanskrit

MiscAshtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री नृसिंह अष्टोत्तरशतनामावली ||

ओं नारसिंहाय नमः ।
ओं महासिंहाय नमः ।
ओं दिव्यसिंहाय नमः ।
ओं महाबलाय नमः ।
ओं उग्रसिंहाय नमः ।
ओं महादेवाय नमः ।
ओं स्तम्भजाय नमः ।
ओं उग्रलोचनाय नमः ।
ओं रौद्राय नमः । ९

ओं सर्वाद्भुताय नमः ।
ओं श्रीमते नमः ।
ओं योगानन्दाय नमः ।
ओं त्रिविक्रमाय नमः ।
ओं हरये नमः ।
ओं कोलाहलाय नमः ।
ओं चक्रिणे नमः ।
ओं विजयाय नमः ।
ओं जयवर्धनाय नमः । १८

ओं पञ्चाननाय नमः ।
ओं परस्मै ब्रह्मणे नमः ।
ओं अघोराय नमः ।
ओं घोरविक्रमाय नमः ।
ओं ज्वलन्मुखाय नमः ।
ओं ज्वालमालिने नमः ।
ओं महाज्वालाय नमः ।
ओं महाप्रभवे नमः ।
ओं निटिलाक्षाय नमः । २७

ओं सहस्राक्षाय नमः ।
ओं दुर्निरीक्ष्याय नमः ।
ओं प्रतापनाय नमः ।
ओं महादंष्ट्रायुधाय नमः ।
ओं प्राज्ञाय नमः ।
ओं चण्डकोपिने नमः ।
ओं सदाशिवाय नमः ।
ओं हिरण्यकशिपुध्वंसिने नमः ।
ओं दैत्यदानवभञ्जनाय नमः । ३६

ओं गुणभद्राय नमः ।
ओं महाभद्राय नमः ।
ओं बलभद्राय नमः ।
ओं सुभद्रकाय नमः ।
ओं करालाय नमः ।
ओं विकरालाय नमः ।
ओं विकर्त्रे नमः ।
ओं सर्वकर्तृकाय नमः ।
ओं शिंशुमाराय नमः । ४५

ओं त्रिलोकात्मने नमः ।
ओं ईशाय नमः ।
ओं सर्वेश्वराय नमः ।
ओं विभवे नमः ।
ओं भैरवाडम्बराय नमः ।
ओं दिव्याय नमः ।
ओं अच्युताय नमः ।
ओं कविमाधवाय नमः ।
ओं अधोक्षजाय नमः । ५४

ओं अक्षराय नमः ।
ओं शर्वाय नमः ।
ओं वनमालिने नमः ।
ओं वरप्रदाय नमः ।
ओं विश्वम्भराय नमः ।
ओं अद्भुताय नमः ।
ओं भव्याय नमः ।
ओं श्रीविष्णवे नमः ।
ओं पुरुषोत्तमाय नमः । ६३

ओं अनघास्त्राय नमः ।
ओं नखास्त्राय नमः ।
ओं सूर्यज्योतिषे नमः ।
ओं सुरेश्वराय नमः ।
ओं सहस्रबाहवे नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वसिद्धिप्रदायकाय नमः ।
ओं वज्रदंष्ट्राय नमः ।
ओं वज्रनखाय नमः । ७२

ओं महानन्दाय नमः ।
ओं परन्तपाय नमः ।
ओं सर्वमन्त्रैकरूपाय नमः ।
ओं सर्वयन्त्रविदारणाय नमः ।
ओं सर्वतन्त्रात्मकाय नमः ।
ओं अव्यक्ताय नमः ।
ओं सुव्यक्ताय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं वैशाखशुक्लभूतोत्थाय नमः । ८१

ओं शरणागतवत्सलाय नमः ।
ओं उदारकीर्तये नमः ।
ओं पुण्यात्मने नमः ।
ओं महात्मने नमः ।
ओं चण्डविक्रमाय नमः ।
ओं वेदत्रयप्रपूज्याय नमः ।
ओं भगवते नमः ।
ओं परमेश्वराय नमः ।
ओं श्रीवत्साङ्काय नमः । ९०

ओं श्रीनिवासाय नमः ।
ओं जगद्व्यापिने नमः ।
ओं जगन्मयाय नमः ।
ओं जगत्पालाय नमः ।
ओं जगन्नाथाय नमः ।
ओं महाकायाय नमः ।
ओं द्विरूपभृते नमः ।
ओं परमात्मने नमः ।
ओं परस्मै ज्योतिषे नमः । ९९

ओं निर्गुणाय नमः ।
ओं नृकेसरिणे नमः ।
ओं परतत्त्वाय नमः ।
ओं परस्मै धाम्ने नमः ।
ओं सच्चिदानन्दविग्रहाय नमः ।
ओं लक्ष्मीनृसिंहाय नमः ।
ओं सर्वात्मने नमः ।
ओं धीराय नमः ।
ओं प्रह्लादपालकाय नमः । १०८

इति श्री नृसिंहाष्टोत्तरशतनामावली ।

Found a Mistake or Error? Report it Now

Download श्री नृसिंह अष्टोत्तरशतनामावली PDF

श्री नृसिंह अष्टोत्तरशतनामावली PDF

Leave a Comment

Join WhatsApp Channel Download App