Download HinduNidhi App
Misc

श्री राघव स्तोत्रम्

Sri Raghava Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री राघव स्तोत्रम् ||

इन्द्रनीलाचलश्याममिन्दीवरदृगुज्ज्वलम् ।
इन्द्रादिदैवतैः सेव्यमीडे राघवनन्दनम् ॥ १ ॥

पालिताखिलदेवौघं पद्मगर्भं सनातनम् ।
पीनवक्षःस्थलं वन्दे पूर्णं राघवनन्दनम् ॥ २ ॥

दशग्रीवरिपुं भद्रं दावतुल्यं सुरद्विषाम् ।
दण्डकामुनिमुख्यानां दत्ताभयमुपास्महे ॥ ३ ॥

कस्तूरीतिलकाभासं कर्पूरनिकराकृतिम् ।
कातरीकृतदैत्यौघं कलये रघुनन्दनम् ॥ ४ ॥

खरदूषणहन्तारं खरवीर्यभुजोज्ज्वलम् ।
खरकोदण्डहस्तं च खस्वरूपमुपास्महे ॥ ५ ॥

गजविक्रान्तगमनं गजार्तिहरतेजसम् ।
गम्भीरसत्त्वमैक्ष्वाकं गच्छामि शरणं सदा ॥ ६ ॥

घनराजिलसद्देहं घनपीताम्बरोज्ज्वलम् ।
घूत्कारद्रुतरक्षौघं प्रपद्ये रघुनन्दनम् ॥ ७ ॥

चलपीताम्बराभासं चलत्किङ्किणिभूषितम् ।
चन्द्रबिम्बमुखं वन्दे चतुरं रघुनन्दनम् ॥ ८ ॥

सुस्मिताञ्चितवक्त्राब्जं सुनूपुरपदद्वयम् ।
सुदीर्घबाहुयुगलं सुनाभिं राघवं भजे ॥ ९ ॥

हसिताञ्चितनेत्राब्जं हताखिलसुरद्विषम् ।
हरिं रविकुलोद्भूतं हाटकालङ्कृतं भजे ॥ १० ॥

रविकोटिनिभं शान्तं राघवाणामलङ्कृतिम् ।
रक्षोगणयुगान्ताग्निं रामचन्द्रमुपास्महे ॥ ११ ॥

लक्ष्मीसमाश्रितोरस्कं लावण्यमधुराकृतिम् ।
लसदिन्दीवरश्यामं लक्ष्मणाग्रजमाश्रये ॥ १२ ॥

वालिप्रमथनाकारं वालिसूनुसहायिनम् ।
वरपीताम्बराभासं वन्दे राघवभूषणम् ॥ १३ ॥

शमिताखिलपापौघं शान्त्यादिगुणवारिधिम् ।
शतपत्रदृशं वन्दे शुभं दशरथात्मजम् ॥ १४ ॥

कुन्दकुड्मलदन्ताभं कुङ्कुमाङ्कितवक्षसम् ।
कुसुम्भवस्त्रसंवीतं पुत्रं राघवमाश्रये ॥ १५ ॥

मल्लिकामालतीजातिमाधवीपुष्पशोभितम् ।
महनीयमहं वन्दे महतां कीर्तिवर्धनम् ॥ १६ ॥

इदं यो राघवस्तोत्रं नरः पठति भक्तिमान् ।
मुक्तः संसृतिबन्धाद्धि स याति परमं पदम् ॥ १७ ॥

इति श्री राघव स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री राघव स्तोत्रम् PDF

श्री राघव स्तोत्रम् PDF

Leave a Comment