Misc

श्री राहु अष्टोत्तरशतनामावली

Sri Rahu Ashtottara Satanamavali Sanskrit

MiscAshtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री राहु अष्टोत्तरशतनामावली ||

ओं राहवे नमः ।
ओं सैंहिकेयाय नमः ।
ओं विधुन्तुदाय नमः ।
ओं सुरशत्रवे नमः ।
ओं तमसे नमः ।
ओं फणिने नमः ।
ओं गार्ग्यायणाय नमः ।
ओं सुरागवे नमः ।
ओं नीलजीमूतसङ्काशाय नमः । ९

ओं चतुर्भुजाय नमः ।
ओं खड्गखेटकधारिणे नमः ।
ओं वरदायकहस्तकाय नमः ।
ओं शूलायुधाय नमः ।
ओं मेघवर्णाय नमः ।
ओं कृष्णध्वजपताकवते नमः ।
ओं दक्षिणाशामुखरताय नमः ।
ओं तीक्ष्णदंष्ट्रधराय नमः ।
ओं शूर्पाकारासनस्थाय नमः । १८

ओं गोमेदाभरणप्रियाय नमः ।
ओं माषप्रियाय नमः ।
ओं कश्यपर्षिनन्दनाय नमः ।
ओं भुजगेश्वराय नमः ।
ओं उल्कापातजनये नमः ।
ओं शूलिने नमः ।
ओं निधिपाय नमः ।
ओं कृष्णसर्पराजे नमः ।
ओं विषज्वलावृतास्याय नमः । २७

ओं अर्धशरीराय नमः ।
ओं जाद्यसम्प्रदाय नमः ।
ओं रवीन्दुभीकराय नमः ।
ओं छायास्वरूपिणे नमः ।
ओं कठिनाङ्गकाय नमः ।
ओं द्विषच्चक्रच्छेदकाय नमः ।
ओं करालास्याय नमः ।
ओं भयङ्कराय नमः ।
ओं क्रूरकर्मणे नमः । ३६

ओं तमोरूपाय नमः ।
ओं श्यामात्मने नमः ।
ओं नीललोहिताय नमः ।
ओं किरीटिणे नमः ।
ओं नीलवसनाय नमः ।
ओं शनिसामान्तवर्त्मगाय नमः ।
ओं चाण्डालवर्णाय नमः ।
ओं अश्व्यर्क्षभवाय नमः ।
ओं मेषभवाय नमः । ४५

ओं शनिवत्फलदाय नमः ।
ओं शूराय नमः ।
ओं अपसव्यगतये नमः ।
ओं उपरागकराय नमः ।
ओं सूर्यहिमांशुच्छविहारकाय नमः ।
ओं नीलपुष्पविहाराय नमः ।
ओं ग्रहश्रेष्ठाय नमः ।
ओं अष्टमग्रहाय नमः ।
ओं कबन्धमात्रदेहाय नमः । ५४

ओं यातुधानकुलोद्भवाय नमः ।
ओं गोविन्दवरपात्राय नमः ।
ओं देवजातिप्रविष्टकाय नमः ।
ओं क्रूराय नमः ।
ओं घोराय नमः ।
ओं शनेर्मित्राय नमः ।
ओं शुक्रमित्राय नमः ।
ओं अगोचराय नमः ।
ओं माने गङ्गास्नानदात्रे नमः । ६३

ओं स्वगृहे प्रबलाढ्यकाय नमः ।
ओं सद्गृहेऽन्यबलधृते नमः ।
ओं चतुर्थे मातृनाशकाय नमः ।
ओं चन्द्रयुक्ते चण्डालजन्मसूचकाय नमः ।
ओं सिंहेजन्माय नमः ।
ओं राज्यदात्रे नमः ।
ओं महाकायाय नमः ।
ओं जन्मकर्त्रे नमः ।
ओं विधुरिपवे नमः । ७२

ओं मत्तकाय नमः ।
ओं ज्ञानदाय नमः ।
ओं जन्मकन्याराज्यदात्रे नमः ।
ओं जन्महानिदाय नमः ।
ओं नवमे पितृहन्त्रे नमः ।
ओं पञ्चमे शोकदायकाय नमः ।
ओं द्यूने कलत्रहन्त्रे नमः ।
ओं सप्तमे कलहप्रदाय नमः ।
ओं षष्ठे वित्तदात्रे नमः । ८१

ओं चतुर्थे वैरदायकाय नमः ।
ओं नवमे पापदात्रे नमः ।
ओं दशमे शोकदायकाय नमः ।
ओं आदौ यशः प्रदात्रे नमः ।
ओं अन्ते वैरप्रदायकाय नमः ।
ओं कालात्मने नमः ।
ओं गोचराचाराय नमः ।
ओं धने ककुत्प्रदाय नमः ।
ओं पञ्चमे धिषणाशृङ्गदाय नमः । ९०

ओं स्वर्भानवे नमः ।
ओं बलिने नमः ।
ओं महासौख्यप्रदायिने नमः ।
ओं चन्द्रवैरिणे नमः ।
ओं शाश्वताय नमः ।
ओं सुरशत्रवे नमः ।
ओं पापग्रहाय नमः ।
ओं शाम्भवाय नमः ।
ओं पूज्यकाय नमः । ९९

ओं पाटीरपूरणाय नमः ।
ओं पैठीनसकुलोद्भवाय नमः ।
ओं दीर्घ कृष्णाय नमः ।
ओं अतनवे नमः ।
ओं विष्णुनेत्राय नमः ।
ओं देवदानवौ अरये ।
ओं भक्तरक्षाय नमः ।
ओं राहुमूर्तये नमः ।
ओं सर्वाभीष्टफलप्रदाय नमः । १०८

इति श्री राहु अष्टोत्तरशतनामावली ।

Found a Mistake or Error? Report it Now

Download श्री राहु अष्टोत्तरशतनामावली PDF

श्री राहु अष्टोत्तरशतनामावली PDF

Leave a Comment

Join WhatsApp Channel Download App