Download HinduNidhi App
Misc

श्री रवि स्तोत्रम् (साम्बपुराणे)

Sri Ravi Stotram Samba Purane Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री रवि स्तोत्रम् (साम्बपुराणे) ||

त्वं देव ऋषिकर्ता च प्रकृतिः पुरुषः प्रभुः ।
छाया सञ्ज्ञा प्रतिष्ठापि निरालम्बो निराश्रयः ॥ १ ॥

आश्रयः सर्वभूतानां नमस्तेऽस्तु सदा मम ।
त्वं देव सर्वतश्चक्षुः सर्वतः सर्वदा गतिः ॥ २ ॥

सर्वदः सर्वदा सर्वः सर्वसेव्यस्त्वमार्तिहा ।
त्वं देव ध्यानिनां ध्यानम् योगिनां योग उत्तमः ॥ ३ ॥

त्वं भाषाफलदः सर्वः सद्यः पापहरो विभुः ।
सर्वार्तिनाशं नो नाशीकरणं करुणा विभुः ॥ ४ ॥

दयाशक्तिः क्षमावासः सघृणिर्घृणिमूर्तिमान् ।
त्वं देव सृष्टिसंहारस्थितिरूपः सुराधिपः ॥ ५ ॥

बकः शोषो वृकोदाहस्तुषारो दहनात्मकः ।
प्रणतार्तिहरो योगी योगमूर्ते नमोऽस्तु ते ॥ ६ ॥

त्वं देव हृदयानन्द शिरोरत्नप्रभामणिः ।
बोधकः पाठको ध्यायी ग्राहको ग्रहणात्मकः ॥ ७ ॥

त्वं देव नियमो न्यायी न्यायको न्यायवर्धनः ।
अनित्यो नियतो नित्यो न्यायमूर्ते नमोऽस्तु ते ॥ ८ ॥

त्वं देव त्रायसे प्राप्तान् पालयस्यर्पवस्थितान् ।
ऊर्द्वत्राणार्दितान् लोकान् लोकचक्षुर्नमोऽस्तु ते ॥ ९ ॥

दमनोऽसि त्वं दुर्दान्तः साध्यानां चैव साधकः ।
बन्धुः स्वबन्धुहीनानां नमस्ते बन्धुरूपिणे ॥ १० ॥

इति श्रीसाम्बपुराणे त्रिचत्वारिंशोऽध्याये रवि स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री रवि स्तोत्रम् (साम्बपुराणे) PDF

श्री रवि स्तोत्रम् (साम्बपुराणे) PDF

Leave a Comment