Misc

श्री सर्वमङ्गला स्तोत्रम्

Sri Sarvamangala Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री सर्वमङ्गला स्तोत्रम् ||

ब्रह्मोवाच ।
दुर्गे शिवेऽभये माये नारायणि सनातनि ।
जये मे मङ्गलं देहि नमस्ते सर्वमङ्गले ॥ १ ॥

दैत्यनाशार्थवचनो दकारः परिकीर्तितः ।
उकारो विघ्ननाशार्थवाचको वेदसम्मतः ॥ २ ॥

रेफो रोगघ्नवचनो गश्च पापघ्नवाचकः ।
भयशत्रुघ्नवचनश्चाऽऽकारः परिकीर्तितः ॥ ३ ॥

स्मृत्युक्तिस्मरणाद्यस्या एते नश्यन्ति निश्चितम् ।
अतो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तिता ॥ ४ ॥

विपत्तिवाचको दुर्गश्चाऽऽकारो नाशवाचकः ।
दुर्गं नश्यति या नित्यं सा च दुर्गा प्रकीर्तिता ॥ ५ ॥

दुर्गो दैत्येन्द्रवचनोऽप्याकारो नाशवाचकः ।
तं ननाश पुरा तेन बुधैर्दुर्गा प्रकीर्तिता ॥ ६ ॥

शश्च कल्याणवचन इकारोत्कृष्टवाचकः ।
समूहवाचकश्चैव वाकारो दातृवाचकः ॥ ७ ॥

श्रेयः सङ्घोत्कृष्टदात्री शिवा तेन प्रकीर्तिता ।
शिवराशिर्मूर्तिमती शिवा तेन प्रकीर्तिता ॥ ८ ॥

शिवो हि मोक्षवचनश्चाऽऽकारो दातृवाचकः ।
स्वयं निर्वाणदात्री या सा शिवा परिकीर्तिता ॥ ९ ॥

अभयो भयनाशोक्तश्चाऽऽकारो दातृवाचकः ।
प्रददात्यभयं सद्यः साऽभया परिकीर्तिता ॥ १० ॥

राजश्रीवचनो माश्च याश्च प्रापणवाचकः ।
तां प्रापयति या नित्यं सा माया परिकीर्तिता ॥ ११ ॥

माश्च मोक्षार्थवचनो याश्च प्रापणवाचकः ।
तं प्रापयति या सद्यः सा माया परिकीर्तिता ॥ १२ ॥

नारायणार्धाङ्गभूता तेन तुल्या च तेजसा ।
सदा तस्य शरीरस्था तेन नारायणी स्मृता ॥ १३ ॥

निर्गुणस्य च नित्यस्य वाचकश्च सनातनः ।
सदा नित्या निर्गुणा या कीर्तिता सा सनातनी ॥ १४ ॥

जयः कल्याणवचनो ह्याकारो दातृवाचकः ।
जयं ददाति या नित्यं सा जया परिकीर्तिता ॥ १५ ॥

सर्वमङ्गलशब्दश्च सम्पूर्णैश्वर्यवाचकः ।
आकारो दातृवचनस्तद्दात्री सर्वमङ्गला ॥ १६ ॥

नामाष्टकमिदं सारं नामार्थसहसम्युतम् ।
नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ॥ १७ ॥

तस्मै दत्त्वा निद्रितश्च बभूव जगतां पतिः ।
मधुकैटभौ दुर्दान्तौ ब्रह्माणं हन्तुमुद्यतौ ॥ १८ ॥

स्तोत्रेणानेन स ब्रह्मा स्तुतिं नत्वा चकार ह ।
साक्षात् स्तुता तदा दुर्गा ब्रह्मणे कवचं ददौ ॥ १९ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे सप्तविंशोऽध्याये ब्रह्मकृत सर्वमङ्गला स्तोत्रम् ।

Found a Mistake or Error? Report it Now

श्री सर्वमङ्गला स्तोत्रम् PDF

Download श्री सर्वमङ्गला स्तोत्रम् PDF

श्री सर्वमङ्गला स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App