Misc

श्री शिव पञ्चरत्न स्तुतिः (कृष्ण कृतम्)

Sri Shiva Pancharatna Stuti Krishna Kritam Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री शिव पञ्चरत्न स्तुतिः (कृष्ण कृतम्) ||

श्रीकृष्ण उवाच ।
मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजं
भक्तचिन्तितसिद्धिदानविचक्षणं कमलेक्षणम् ।
भुक्तिमुक्तिफलप्रदं भवपद्मजाच्युतपूजितं
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १ ॥

वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरैः
मुक्तिकामिभिराश्रितैर्मुनिभिर्दृढामलभक्तिभिः ।
मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनां
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २ ॥

कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै
यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् ।
रक्तभुग्गणनाथहृद्भ्रमराञ्चिताङ्घ्रिसरोरुहं
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३ ॥

नक्तनाथकलाधरं नगजापयोधरनीरजा-
-लिप्तचन्दनपङ्ककुङ्कुमपङ्किलामलविग्रहम् ।
शक्तिमन्तमशेषसृष्टिविधायकं सकलप्रभुं
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ४ ॥

रक्तनीरजतुल्यपादपयोजसन्मणिनूपुरं
पत्तनत्रयदेहपाटनपङ्कजाक्षशिलीमुखम् ।
वित्तशैलशरासनं पृथुशिञ्जिनीकृततक्षकं
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ५ ॥

यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः
प्रातरेव मया कृतं निखिलाघतूलमहानलम् ।
तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात्
ते महेश्वर शङ्कराखिल विश्वनायक शाश्वत ॥ ६ ॥

इति श्रीशिवमहापुराणे श्रीकृष्णकृत श्रीशिवपञ्चरत्नस्तुतिः ।

Found a Mistake or Error? Report it Now

श्री शिव पञ्चरत्न स्तुतिः (कृष्ण कृतम्) PDF

Download श्री शिव पञ्चरत्न स्तुतिः (कृष्ण कृतम्) PDF

श्री शिव पञ्चरत्न स्तुतिः (कृष्ण कृतम्) PDF

Leave a Comment

Join WhatsApp Channel Download App