Misc

श्री सिद्धलक्ष्मी स्तोत्रम् (पाठान्तरम्)

Sri Siddha Lakshmi Stotram Variation Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री सिद्धलक्ष्मी स्तोत्रम् (पाठान्तरम्) ||

ध्यानम् ।
ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखीम् ।
त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम् ॥
पीताम्बरधरां देवीं नानाऽलङ्कारभूषिताम् ।
तेजःपुञ्जधरीं श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥

स्तोत्रम् ।
ओङ्कारं लक्ष्मीरूपं तु विष्णुं वाग्भवमव्ययम् ।
विष्णुमानन्दमव्यक्तं ह्रीङ्कारबीजरूपिणीम् ॥

क्लीं अमृता नन्दिनीं भद्रां सत्यानन्ददायिनीम् ।
श्रीं दैत्यशमनीं शक्तीं मालिनीं शत्रुमर्दिनीम् ॥

तेजःप्रकाशिनीं देवी वरदां शुभकारिणीम् ।
ब्राह्मीं च वैष्णवीं रौद्रीं कालिकारूपशोभिनीम् ॥

अकारे लक्ष्मीरूपं तु उकारे विष्णुमव्ययम् ।
मकारः पुरुषोऽव्यक्तो देवी प्रणव उच्यते ।

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् ।
तन्मध्ये निकरं सूक्ष्मं ब्रह्मरुपं व्यवस्थितम् ।

ओङ्कारं परमानन्दं सदैव सुरसुन्दरीम् ।
सिद्धलक्ष्मी मोक्षलक्ष्मी आद्यलक्ष्मी नमोऽस्तु ते ।

ऐङ्कारं परमं सिद्धं सर्वबुद्धिप्रदायकम् ।
सौभाग्याऽमृता कमला सत्यलक्ष्मी नमोऽस्तु ते ।

ह्रीङ्कारं परमं शुद्धं परमैश्वर्यदायकम् ।
कमला धनदा लक्ष्मी भोगलक्ष्मी नमोऽस्तु ते ।

क्लीङ्कारं कामरूपिण्यं कामनापरिपूर्तिदम् ।
चपला चञ्चला लक्ष्मी कात्यायनी नमोऽस्तु ते ॥

श्रीङ्कारं सिद्धिरूपिण्यं सर्वसिद्धिप्रदायकम् ।
पद्माननां जगन्मात्रे अष्टलक्मीं नमोऽस्तु ते ।

सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्रयम्बके गौरि नारायणी नमोऽस्तु ते ।

प्रथमं त्र्यम्बका गौरी द्वितीयं वैष्णवी तथा ।
तृतीयं कमला प्रोक्ता चतुर्थं सुन्दरी तथा ।

पञ्चमं विष्णुशक्तिश्च षष्ठं कात्यायनी तथा ।
वाराही सप्तमं चैव ह्यष्टमं हरिवल्लभा ।

नवमं खड्गिनी प्रोक्ता दशमं चैव देविका ।
एकादशं सिद्धलक्ष्मीर्द्वादशं हंसवाहिनी ।

एतत् स्तोत्र वरं देव्या ये पठन्ति सदा नराः ।
सर्वापद्भ्यो विमुच्यन्ते नात्र कार्या विचारणा ।

एकमासं द्विमासं च त्रिमासं मासचतुष्टयम् ।
पञ्चमासं च षण्मासं त्रिकालं यः सदा पठेत् ।

ब्राह्मणः क्लेशितो दुःखी दारिद्र्यभयपीडितः ।
जन्मान्तर सहस्रोत्थैर्मुच्यते सर्वकिल्बषैः ।

दरिद्रो लभते लक्ष्मीमपुत्रः पुत्रवान् भवेत् ।
धन्यो यशस्वी शत्रुघ्नो वह्निचौरभयेषु च ।

शाकिनी भूत वेताल सर्प व्याघ्र निपातने ।
राजद्वारे सभास्थाने कारागृह निबन्धने ।

ईश्वरेण कृतं स्तोत्रम् प्राणिनां हितकारकम् ।
स्तुवन्तु ब्राह्मणाः नित्यं दारिद्र्यं न च बाधते ।

सर्वपापहरा लक्ष्मीः सर्वसिद्धिप्रदायिनीम् ।
साधकाः लभते सर्वं पठेत् स्तोत्रम् निरन्तरम् ।

या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।
शङ्खे दैवकुले नरेन्द्रभवने गङ्गातटे गोकुले
सा श्रीस्तिष्ठति सर्वदा मम गृहे भूयात् सदा निश्चला ॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥

इति श्री सिद्धलक्ष्मी स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

श्री सिद्धलक्ष्मी स्तोत्रम् (पाठान्तरम्) PDF

Download श्री सिद्धलक्ष्मी स्तोत्रम् (पाठान्तरम्) PDF

श्री सिद्धलक्ष्मी स्तोत्रम् (पाठान्तरम्) PDF

Leave a Comment

Join WhatsApp Channel Download App